SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ सूत्र-१०६-११४ ] स्वोपज्ञोणादिगणसूत्रविवरणम् [३५७ माङस्तुलेरुङ्गक् च ॥ १०६ ॥ माङपूर्वात् तुलण उन्माने, इत्यस्मात् उङ्गा इङ्गक् च प्रत्ययो भवतः । मातुलुङ्गः बीजपूरः, मातुलिङ्गः स एव ।। १०६ ।। । कमि-तमि-शमिभ्यो डित् ॥ १०७॥ एभ्यो डिदुङ्गः प्रत्ययो भवति । कमूङ कान्ती, कुङ्गा जनपदः । तमूच् काङ्क्षायाम्, तुङ्गः-महावर्मा, शमूच् उपशमे, शुङ्गः-मुनिः, शुङ्गा-विनता । शुङ्गाः-कन्दल्यः ।१०७। सर्तेः सुर्च ॥ १८ ॥ सृ गतौ इत्यस्मादुङ्गः प्रत्ययो भवति, सुर् चास्यादेशो भवति । सुरुङ्गा-गूढमार्गः ।। १०८॥ स्था-ति-जनिभ्यो घः ॥ १०६ ॥ एभ्यो घः प्रत्ययो भवति । ष्ठां गतिनिवृत्ती, स्थाघः-गाधः । ऋप्रापणे च, अर्घ:मूल्यम्, मानप्रमाणं, पादोदकादि च । जनैचि प्रादुर्भावे, जङ्घाशरीरावयवः ॥ १०९ ॥ मघा घवाघ-दीर्घादयः ॥ ११०॥ एते घप्रत्ययान्ता निपात्यन्ते । मङर्धेनूघलोपश्च । मघा नक्षत्रम् । हन्तेर्हस्य घश्च, घङ्घः-घस्मरः, घङ्घा काङ्क्षा। अमेलुक् च, अघं-पापम् । दृणातेीर् च, दीर्घ-आयतः, उच्चश्च । आदिशब्दादन्येऽपि ॥११०॥ सतरघः ॥१११॥ सृ गती, इत्यस्मादघः प्रत्ययो भवति । सरघामधुमक्षिका ।।१११।। कु-पू-समिणभ्यश्चट् दीर्घश्च ॥ ११२ ॥ कुपूभ्यां सम्पूर्वाच्च इणश्चट् प्रत्ययो भवति । दीर्घश्च भवति, टो ड्यर्थः । कुङ, शब्दे, कूचः-हस्ती, कूची-प्रमदा चित्रभाण्डम् , उदश्वित्, विकारश्च । पूग्श् पवने, पूचः, पूची मुनिः । इंणक् गतौ, समीचः ऋत्विक, समीचं-मिथुनयोगः। समीची-पृथ्वी, उदीची च, दीर्घवचनाद् गुणो न भवति ।। ११२ ।। कूच-चूर्चादयः ॥ ११३ ॥ कूर्च इत्यादयः शब्दाश्चट्प्रत्ययान्ता निपात्यन्ते । कवतेः किरतेः करोतेर्वा ऊरादेशश्चान्तस्य । कूर्च-श्मश्रु आसनं, तन्तुवायोपकरणं, यतिपवित्रकं च । कूर्चमिव कूर्चकः कूचिकेति च भवति । चरतेश्चोरयतेर्वा चूरादेशश्च, चूर्चः-बलवान् । आदिशब्दादन्येऽपि ।। ११३ ॥ कल्यवि-मदि-मणि-कु-कणि-कुटि कृभ्योऽचः ॥ ११४ ॥
SR No.032129
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy