________________
३५६ ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[ सूत्र-६६-१०५
विशेषश्च । तमूच काङक्षायाम् , तमङ्गः-हर्म्यनि' हः । तृ प्लवनतरणयोः, तरङ्गः ऊमिः । पृश् पालनपूरणयोः, परङ्गः-खगः, वेगश्च । कृत् विक्षेपे, करङ्गः कर्मशीलः । शृश् हिंसायाम् , शरङ्गः-पक्षिविशेषः । लूग्श् छेदने, लवङ्गः-सुगन्धिवृक्षः । आदिग्रहणादन्येभ्योऽपि ॥९८॥
सृ-वृ-नृभ्यो णित् ॥६६॥
एभ्यो णिदङ्गः प्रत्ययो भवति । सृगतो, सारङ्गः-हरिणः, चातकः, शबलवर्णश्च । वृण्ट वरणे, वारङ्गः, काण्डखङ्गयोः, शल्यं, शकुनिश्च । नृश् नये, नारङ्गः-वृक्षजातिः ।।९।
मनमत्मातौ च ॥ १०॥
मनिच् ज्ञाने, इत्यस्मादङ्गः प्रत्ययो भवति, मत्-मातौ चास्यादेशौ भवतः । मतङ्गः-ऋषिः, हस्ती च । मातङ्गः-हस्ती, अन्त्यजातिश्च ।। १०० ।।
विडि-विलि-कुरि-मृदि-पिशिभ्यः कित् ॥ १०१ ॥
एभ्यः किदङ्गः प्रत्ययो भवति । विड आक्रोशे, विडङ्गः-वृक्षजातिः, गृहावयवश्च । विलत् वरणे, विलत् भेदने वा, विलिङ्गः औषधम् । कुरत् शब्दे, कुरङ्गः-हरिणः, कुरङ्गी भोजकन्या मृदश् क्षोदे, मुदङ्गः-मुरजः । पिशत् अवयवे, पिशङ्गः-वर्णः ।। १०१ ।।
स्फुलि-कलि-पल्याट्य इङ्गक ॥ १०२॥
स्फुल्यादिभ्य आदन्तेभ्यश्च इङ्गक प्रत्ययो भवति । स्फुलत् संचये च, स्फुलिङ्गः स्फूलिङ्गा च अग्निकणः । कलि शब्दसंख्यानयोः, कलिङ्गो-राजा कलिङ्गा-जनपदः । पलगतौ, पलिङ्गः, ऋषिः, शिला च । पातेः पिङ्गः। भातेः, भिङ्गाः। द्वावपि वर्णविशेषौ । ददातेः दिङ्गः-अध्यक्षः। दधाते: धिङ्गः-श्रेष्ठी। लातेः लिङ्ग-स्त्रीत्वादि हेतुश्च । आलिङ्गः-वाद्यविशेषः । श्यतेः शिङ्गः-वनस्पतिः, किशोरश्च ।। १०२ ।।
भलेरिदुतौ चातः ॥ १०३॥
भलिण आभण्डने, इत्यस्मादिङ्गक प्रत्ययो भवति । अकारस्य च इकार-उकारो भवतः । भिलिङ्ग:-कर्मारोपकरणम् । भुलिङ्गः-ऋषिः, पक्षी च । भुलिङ्गा: साल्वावयवाः ।। १०३ ॥
अदेर्णित् ॥ १०४॥
अदंक भक्षणे, इत्यस्मात् दिङ्गक् प्रत्ययो भवति । स च णित् भवति । आदिङ्गःवाद्यजातिः ।। १०४॥
उच्चिलिङ्गादयः ॥ १०५॥
उच्चिलिङ्गादयः शब्दा इङ्गक्प्रत्ययान्ता निपात्यन्ते । उत्पूर्वाच्चलेरस्येत्वं च । उच्चिलिङ्गः-दाडिमी। आदिग्रहणादन्येऽपि ॥ १०५॥