________________
सूत्र-९१-९८ ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[३५५
न्युङ्खादयः शब्दाः खप्रत्ययान्ता निपात्यन्ते । नयतेः ख उन् चान्तः, न्युङ्खा:षडोङ्काराः । आदिग्रहणादन्येऽपि ।। ६० ॥
मये-धिभ्यासूखेखौ ।। ६१॥
मयि गती, एधि वृद्धो, इत्याभ्यां यथासंख्यं ऊख, इख इत्येतो प्रत्ययो भवतः । मयूखः-रश्मिः । एघिखः-वराहः ।। ६१ ।।
गम्यमि-रम्यजि-गद्यदि-छो-गडि-खडि-ग-भृ-वृ-स्वृभ्यो गः ॥ ३२॥
एभ्यो गः प्रत्ययो भवति । गम्लु गतौ, गङ्गादेवनदी । अम गतौ अङ्गम्-शरीरावयवः, अङ्गः समुद्रः, वह्निः, राजा च, अङ्गा-जनपदः । रमि क्रोडायाम् , रङ्गः-नाटयस्थानम् । अज क्षेपणे च, वेग:-त्वरा, रेतश्च । गद वक्तायां वाचि, गदः-वाग्विकलः । अदंक भक्षणे, अद्गः समुद्रः, अग्निः, पुरोडाशश्च । छोंच छेदने, छागः-बस्तः । गड सेचने, गङ्गः-मृगजातिः । खडण् भेदे, खड्गः मृगविशेषः असिश्च । गृत् निगरणे, गर्गः-ऋषिः। टुडुभृगक पोषणे च, भर्ग:-रुद्रः, सूर्यश्च । वृग्ट वरणे, वर्गः संघातः औस्वृ शब्दोपतापयोः, स्वर्गः-नाकः ।। ९२ ।।
पू-मुदिभ्यां कित् ॥ १३ ॥
आभ्यां किद्गः प्रत्ययो भवति । पूग्श् पवने पूगः-संघातः, क्रमुकश्च । मुदि हर्षे मुद्गः-धान्यविशेषः ।। ९३ ।।
भृ-वृभ्यां नोऽन्तश्च ॥ १४ ॥
आभ्यां किद्गः प्रत्ययो भवति, नकारश्चान्तो भवति । टुडुभृक् पोषणे भृङ्गःपक्षी, भ्रमरः वर्णविशेषः, लवङ्गश्च । वृग्ट् वरणे, वृङ्गः-पक्षी, उपपतिः ।। ९४ ।।
द्रमो णिद्वा ।। ६५ ॥
द्रम गतो, इत्यस्माद्गः प्रत्ययो भवति स च णिद्वा । दाङ्ग-शीघ्रम् , द्राङ्गः-पांशुः, द्रङ्गः-नगरम् , द्रङ्गा-शुल्कशाला ।। ९५ ।।
शृङ्ग-शादियः ।। ६६॥
शृङ्गादयः शब्दा गप्रत्ययान्ता निपात्यन्ते । शृश् हिंसायाम्, इत्यस्य नोऽन्तो ह्रस्वश्च । शृङ्ग-विषाणम् , शिखरं च, तस्यैव नोऽन्तो वृद्धिश्च, शाङ्ग:-पक्षी । आदिग्रहणात् हृग् हरणे, हार्ग:-परितोषः । मत् प्राणत्यागे, मार्गः-पन्थाः ।। ६६ ॥
तडेरागः ॥ १७॥ तडण आघाते, इत्यस्मादागः प्रत्ययो भवति । तडागं सरः ।। ९७ ।। पति-तमि-त-प-क-शल्वादेरङ्गः ॥१८॥ एभ्योऽङ्गः प्रत्ययो भवति । पत्लु गतौ, पतङ्गः-पक्षी शलभः, सूर्यः, शालि