________________
३५४ ]
स्वोपज्ञोणादिगणमूत्रविवरणम्
[ सूत्र-८२-९०
चण्डि-भल्लिभ्यामातकः ॥ २ ॥
आभ्यामातकः प्रत्ययो भवति । चडुङ कोपे, चण्डातक नर्तक्यादिवासः। भल्लि परिभाषणहिंसादानेषु, भल्लातक:-वृक्षः ॥ ८२॥
श्लेष्मातकाम्रातकामिलातक-पिष्टातकादयः ॥ ३॥
एते आतकप्रत्ययान्ता निपात्यन्ते । श्लिषेर्मश्च परादिः, श्लेष्मातकः कफेलुः । अमेर्वृद्धो रश्चान्तः, आम्रातक:-वृक्षः । नत्रः परस्य म्लायतेमिल च, अमिलातकम्-वर्णपुष्पम् । पिषेस्तोऽन्तश्च, पिष्टातवर्णचूर्णम् आदिग्रहणात् कोशातक्यादयो भवन्ति ।।८३॥
शमि-मनिभ्यां खः॥८४॥
आभ्यां खः प्रत्ययो भवति, शमूच् उपशमे, शङ्खः-कम्बुः, निधिश्च । मनिच ज्ञाने, मङ्खः मागधः, कृपणः, चित्रपटश्च मङ्खा-मङ्गलम् ।। ८४ ।। . श्यतेरिच्च वा ॥ ८५॥
शोंच तक्षणे, इत्यस्मात् खः प्रत्ययो भवति, इश्चास्यान्तादेशो वा भवति । शिखाचूडा, ज्वाला च, विशिखा-आपणः । विशिखः-बाणः । शाखा-विटपः। विशाखा-नक्षत्रम् । विशाखः-स्कन्दः ।। ८५ ॥ . पू-मुहोः पुन्मुरौ च ॥ ८६ ॥
पूङ पवने मुहीच वैचित्ये, इत्येताभ्यां खः प्रत्ययो भवति । अनयोश्च यथासंख्यं पुन्मुर् इत्यादेशौ भवतः । पुङ्खः-बाणबुध्नभागः, मङ्गलाचारश्च । मूर्खः-अज्ञः ।। ८६ ।।
अशेर्डित् ॥ ८७॥
अशौटि व्याप्ती, इत्यस्मात् डित् खः प्रत्ययो भवति । अश्नुत इति खमाकामिन्द्रियं च, नास्य खमस्ति नखः, शोभनानि खानि अस्मिन् सुखम् । दुष्टानि खान्यस्मिन् दुःखम् ॥ ८७॥
उषेः किल्लुक च ॥८॥
उष् दाहे, इत्यस्मात् कित् खः प्रत्ययो भवति, लुक् चान्त्यस्य भवति । उषन्त्यस्या. मिति उखा-स्थाली, ऊर्ध्वक्रिया वा ॥८८॥
महेरुच्चास्य वा ॥ ४॥
मह पूजायाम् , इत्यस्मात् खः प्रत्ययः अन्तलुक अकारस्य च उकारादेशो वा भवति । मुखमाननम् , मखः यज्ञः, अध्वर्यु:, ईश्वरश्च ।। ८९॥
न्युडादयः॥६॥