________________
सूत्र-७३-८१ ]
स्वोपज्ञोणादिगणसूत्रविवरणम् .
[ ३५३.
कनेरीनकः॥ ७३ ॥
कनै दीप्तिकान्तिगतिषु, इत्यस्मादीनकः प्रत्ययो भवति । कनीनकः-कनीनिका वाऽक्षितारका ।। ७३॥
गुङ् ईधुकधुकौ । ७४॥
गुङ शब्दे. इत्यस्मादीधुक एधुक-इत्येतो प्रत्ययौ भवतः । गवोधुकं-नरम् , धान्यजातिश्च । गवेधुकातृणजातिः ।। ७४ ।।
वृतेस्तिकः॥ ७५॥
वृतूङ वर्तने, इत्यस्मात्तिक: प्रत्ययो भवति । वत्तिका-चित्रकरोपकरणम् , शकुनिः, द्रव्यगुटिका च ।। ७५ ॥
कृति-पुति-लति-भिदिभ्यः कित ।। ७६ ॥
एभ्यः कित्तिक: प्रत्ययो भवति । कृतत् छेदने, कृत्तिका नक्षत्त्रम् । पुतिलती सौत्री, पुत्तिका-मधुमक्षिका लत्तिका-वाद्यविशेषः; गौः गोधा च, गोपूर्वात् गोलत्तिका-गृहगोलिका; अवपूर्वात् , अवलत्तिका-गोधा, आलत्तिका-गानप्रारम्भः । भिदृपी विदारणे, भित्तिका, कुड्यम् , माषादिचूर्णम् , शरावती च नदी ।। ७६ ॥
इष्यशि-मसिभ्यस्तकक् ॥ ७७ ॥
एभ्यस्तकक प्रत्ययो भवति । इषत् इच्छायाम् , इष्टका-मृद्विकारः। अशौटि व्याप्ती, अष्टकाः-श्राद्धतिथयस्तिस्रः, अष्टम्यः, पितृदेवत्यं च । मसैच् परिणामे, मस्तकःशिरः॥ ७७॥
भियो द्वे च ॥ ७॥ त्रिभीक भये, इत्यस्मात्तकक् प्रत्ययो भवति द्वे च रूपे भवतः । विभीतक: अक्षः ७८ ह-रुहि-पिण्डिभ्य ईतकः ।। ७६ ॥
एम्य ईतकः प्रत्ययो भवति । हृग् हरणे हरीतकी पथ्या । रुहं जन्मनि, रोहीतकःवृक्षविशेषः । पिडुङ संघाते, पिण्डीतकः-करहाटः ।। ७९ ॥
कुषः कित् ।। ८० ॥ कुषश् निष्कर्षे, इत्यस्मात् किदीकः प्रत्ययो भवति । कुषीतकः-ऋषिः ॥ ८ ॥ बलि-बिलि-शलि-दमिभ्य आहकः ॥ ८१ ॥
एभ्य आहक: प्रत्ययो भवति । बल प्राणनधान्यावरोधयोः, बलाहकः-मेघः, वातश्च । बिलत् भेदने, बिलाहकः-वज्रः । बाहुलकान्न गुणः । शल गती, शलाहकः-वायुः । दमूच् उपशमे, दमाहकः-शिष्यः ।। ८१॥