________________
३५२ ]
स्वोपज्ञोणादिगणसूत्र विवरणम्
[ सूत्र- ६४-७२
कुलि- चिरिभ्यामिङ्कक् ॥ ६४ ॥
आभ्यामिङ्कक् प्रत्ययो भवति । कुल बन्धुसंस्त्यानयोः, कुलिङ्कः चटका । चिर हिंसायाम् सौत्रः, चिरिङ्क जलयन्त्रम् ।। ६४ ।
कलेरविङ्कः ।। ६५ ।।
कलेरविङ्कः प्रत्ययो भवति । कलि शब्दसंख्यानयो, कलविङ्कः गृहचटकः ।। ६५ ॥
क्रमेरेलकः ॥ ६६ ॥
क्रमू पादविक्षेपे, इत्यस्मादेलक : प्रत्ययो भवति । क्रमेलकः करभः ।। ६६ ।।
1
जीवेरातृको जैव च ॥ ६७ ॥
1
जीव प्राणधारणे, इत्यस्मादातृकः प्रत्ययो भवति, जैव इत्यादेशश्च भवति । जैवातृकः आयुष्मान् चन्द्रः आम्रः वैद्यः मेघश्च । जैवातृका जीवद्वत्सा स्त्री ।। ६७ ।।
हृ-भू-लाभ्य आणकः ॥ ६८ ॥
भ्य आणकः प्रत्ययो भवति । हृग् हरणे, हराणक: चौरः । भू सत्तायाम्, भवाकः गृहपतिः । लां आदाने, लाणकः हस्ती ॥ ६८ ॥
प्रियः कित् ॥ ६६ ॥
प्रींग्श् तृप्तिकान्त्योः, इत्यस्मादाणकः प्रत्ययो भवति स च कित् भवति । प्रियाणकः पुत्रः ।। ६९ ॥
धा--लू - शिङ्खिभ्यः ॥ ७० ॥
योगविभाग उत्तरार्थः एभ्यश्च आणकः प्रत्ययो भवति । डुधांग्क् धारणे च, घाणकः दीनारद्वादशभागः हविषां ग्रहः छिद्रपिधानं च । लूग्श् छेदने, लवाणकः कालः तृणजातिः दात्रं च । शिघु आघ्राणे, शिङ्खाणकः नासिकामलः ॥ ७० ॥
शी-भी राजेश्वानकः ॥ ७१ ॥
शीभीराजिभ्यो घालूशिङ्घिभ्यश्च आनकः प्रत्ययो भवति । शीङक् स्वप्ने, शयानकः-अजगरः, शैलश्च । त्रिभींक् भये, बिभेत्यस्मादिति भयानक :- भीमः, व्याघ्रः, वराहः, राहुश्च । राजग् दीप्तौ राजानकः- क्षत्त्रियः । डुधांग्क् धारणे च, धानक :- हेमादिपरिमा णम् । लुग्श् छेदने, लवानक:- देशविशेषः, दात्रं च । शिङ्खन्त्यनेनेति शिङ्खानक:- श्लेष्मायुः पुरीषं च ।। ७१ ।।
अडित् ॥ ७२ ॥
अडिदानकः प्रत्ययो भवति । अण् शब्दे, आनकः - पटहः ।। ७२ ।
4