________________
सूत्र- ५८-६३ ]
स्वोपज्ञोणादिगणसूत्र विवरणम्
[ ३५१
घोभागः, जम्बुक:- सृगालः । चुलुम्पः सौत्रः, अन्त्यस्वरादिलोपश्च चुलुम्पतीति - चुलुकः करकोशः चतेश्चूच् च, चूचुकः - स्तनाग्रभागः । ज्वलेरुल्म् च, उल्मुकम् - अलातम् । भातेर्वोऽन्तश्च, भावुकः - भगिनीपतिः । प्रथिष् प्रख्याने, पृथुकः- शिशुः व्रीह्याद्यभ्यूषश्च । मचि कल्कने, घश्चान्तादेशः, मधुकं यष्टीमधुः । आदिग्रहणाद् वालुको वालुकादयो भवन्ति ॥५७॥
मृ-मन्यञ्जि-जलि - बलि-तलि-मलि-मल्लि भालि मण्डि - बन्धिभ्य ऊकः ॥ ५८ ॥
एभ्य ऊकः प्रत्ययो भवति । मृत् प्राणत्यागे, मरूक:- मयूरः, मृगः, निदर्शनेभ:, तृणं च । मनिच् ज्ञाने, मनूक:- कृमिजातिः । अञ्जौप् व्यक्ति- म्रक्षण - गतिषु, अजूक :हिंस्रः । जल घात्ये, जलूका - जलजन्तुः । बल प्राणन-धान्यावरोधनयो:, बलूकः - उत्पलमूलं, मत्स्यश्च तलण् प्रतिष्ठायाम्, तलूकः - त्वक्कृमि: । मलि धारणे, मलूकः - सरोजशकुनिः । मल्लि घारणे, मल्लूकः - कृमिजातिः । भलिण् आभण्डने, भालूकः ऋक्षः । मुह भूषायाम् मण्डूकः- दुर्दुरः बन्धंश् बन्धने, बन्धूकः - बन्धुजीवः ॥ ५८ ॥
शल्यणेर्णित् ॥ ५६ ॥
आभ्यां णिदूकः प्रत्ययो भवति । पल फल शल गतौ, शालूकं - जलकन्दः, बलवांश्च । अणशब्दे, आणूकम् - अक्षिमलम् ॥ ५६ ॥
कणि--भल्लेर्दीर्घश्व वा ॥ ६० ॥
आभ्यामूकः प्रत्ययो भवति, दीर्घश्चानयोर्वा भवति । कण शब्दे, कणूकः - धान्यस्तोकः, काणूक:- पक्षी, काकम् - अक्षिमलम्, तमो वा । भल्लि परिभाषण - हिंसा - दानेषु, भल्लूकः भाल्लूकश्च - ऋक्षः ।। ६० ।।
शम्बूक--शाम्बूक-वृधूक-मधूकोलू को रुबूक वरूकादयः ॥ ६१ ॥
एते ऊकप्रत्ययान्ता निपात्यन्ते । शमेर्वोऽन्तो दीर्घश्च वा । शम्बूकः - शङ्खः, शाम्बूकः स एव । वृश् भरणे, अस्य वृषभावश्च, वृधूकः - मातृवाहकः, वृधूकं जलम् । मदे - र्धश्च, मदयतीति - मधूकः - वृक्षः । अलेरुच्चोपान्त्यस्य, उलूकः - काकारिः । उरुपूर्वाद् वातेः किच्च, उरु वाति उरुवूक : - एरण्ड: । वृधेर्लोपश्च वर्धत इति - वरूक:- -तृणजाति: आदिग्रहणादनूकवावदूकाऽऽदयो भवन्ति ।। ६१ ।।
किरोऽङ्को रो लव वा ॥ ६२ ॥
किरतेरङ्कः प्रत्ययो भवति । रेफस्य च लकादेशो वा भवति । करङ्कः-समुद्रः, कलङ्कः-लाञ्छनम् ।। ६२ ।।
रा-ला-पा-का-भ्यः कित् ॥ ६३ ॥
एभ्य किदङ्कः प्रत्ययो भवति । रांक् दाने, रङ्कः बलीयान् । लांकू दाने, लङ्का पुरी । पांक रक्षणे, पङ्कः कर्दमः । कैं शब्दे कङ्कः पक्षी ।। ६३ ।।