________________
सूत्र-२०-२२ ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्यायः
[३४३
हावकरणे, हेलिहिलः, हैलिहिलश्च-विलनशीलः । शेलिशिलः, शैलिशिलश्च । शुभि दीप्ती शोभते पुनः पुनरिति-शोभुशुभः, शौभुशुभः । णुदत् प्रेरणे, नुदति पुनः पुनरिति-नोदुनुदः, नौदुनुदः । गुडत् रक्षायाम्, गुलति-भ्राम्यति पुनः पुनरिति-गोलुगुलः, गौलुगुलः । बुलण् निमज्जने, बोलयति पुनः पुनरिति-बोलुबुलः । बौलुबुलः । तत्तद्धात्वर्थास्तच्छीला अनुवादविशेषा वैते ॥१९॥
णेलु प्॥२०॥
घातोरप्रत्ययसन्नियोगे बहुलं लुप् भवति । वज्र धारयतीति-वज्रधरः-इन्द्रः। एवं-चक्रधरः-विष्णुः, भूधरः-अद्रिः, जलघर:-मेघः । बाहुलकात् प्रत्ययान्तरेऽपि,-देवयतीति -दिव-द्यौः, व्योम, स्वर्गश्च । पुण्यं कारयन्तीति पुण्यकृतो देवाः, एवं-पर्ण शोषयतीति पर्णशुट ।
"वान्ति पर्णशुषो वातास्ततः पर्णमुचोऽपरे ।
ततः पर्णरुहः पश्चात् ततो देवः प्रवर्षति ।।१।। तथा-महतः कारयांचQराक्रन्दान् इति प्राप्ते 'महतश्चक्रुराक्रन्दान्' इति भवति । "महीपालवचः श्रुत्वा जुघुषुः पुष्यमाणवाः । घोषयांचरित्यर्थः ॥ २० ॥ भीण-शलि-बलि-कल्यति-मय॑र्चि-मृजि-कु-तु-स्तु-दा-धारा-त्रा-का-पा-निहा
नशुभ्यः कः ॥२१॥ एभ्यः कप्रत्ययो भवति । जिभीक भये, बिभेति दुन्दुभात् परस्माच्च-भेकः-मण्डूकः, कातरश्च बिभेति वायोः-भेक:-मेघः । 'इंण्क् गो' एत्यद्वितीय इतिएकः असहायः, संख्या, प्रधानम, असमानम्, अन्यश्च । पल फल शल गतौ, शलन्त्यात्मरक्षणाय तमिति शल्कःशरणम् शलति त्यक्त बहिरिति-शल्कं गृहीतरसं शकलम् , शल्कः-काष्ठत्वक मलिनं च काष्ठमुद्गरः करणं च । वलि संवरणे, वल्कः-दशनः, वासः, त्वक् च । कलि शब्द-संख्यानयोः कल्क:-कषायः दम्भः, पिष्टपिण्डश्च । अत सातत्यगमने, अत्कः-आत्मा वायुः व्याधितः, चन्द्रः, उत्पातश्च । मर्चः सौत्रो धातुः प्राप्तौ मर्कः, देवदारुः, वायुः, दानवः, मनः, पन्नगः, विघ्नकारी च । “च-जः क-गम्” (२-१-८६) इति कत्वम् । अर्च पूजायाम् अर्क:-सूर्यः, पुष्पजातिः, का (झा) टजातिश्च । मृजीक शुद्धौ, मार्कः-वायुः। कंक शब्दे, कोक:-चक्रवाकः। तुक वृत्ति-हिंसा-पूरणेषु, तोकम्-अपत्यम् । ष्टुंगा स्तुतौ, स्तोकम्-अल्पम् । डुदांगक दाने, दाकः, यजमानः, यज्ञश्च । डुधांगा धारणे च, धाक:ओदनः, अनड़वान्, अम्भः, स्वम्भश्च । रांक दाने, राकः-दाता, अर्थः, सूर्यश्च, राकापौर्णमासी, कुमारी रजस्वला च । —ङ पालने त्राकः-धर्मः शरणस्थानीयश्च । के शब्दे, काक:-वायसः । पां पाने, पांक रक्षणे वा, पाक:-बालः, असुरः, पर्वतश्च । ओहांक त्यागे, निहाक:-नि:स्नेहः, निर्मोकश्च, निहाकः-गोधा । शुं गतौ, न शवतीति-अशोकः ॥२१॥
विचि-पुषि-मुषि-शुष्यवि-सू-वृ-शु-सु-भू-धू-मू-नी-वीभ्यः कित् ॥२२॥