________________
३४२ ]
स्वोपज्ञोरणादिगण सूत्र विवरणम्
[ सूत्र - १५-१९
विलेखने, हलहलः । कलि शब्द संख्यानयोः, कलकलः मलि धारणे, मलमलः । घटिष् चेष्टायाम्, घटघटः । वद व्यक्तायां वाचि, वदवदः । पदिच् गतौ पदपदः । ऋदन्तः डुक ंग् करणे, करकरः । मृत् प्राणत्यागे, मरमरः । दृङत् आदरे, दरदरः । सृङ्गतो, सरसरः । वृग्ट् वरणे वरवरः । अनुकरणशब्दा एते ।। १४ ।।
मष-मसेर्वा ॥ १५ ॥
आभ्यामः प्रत्ययो भवति, सरूपे च द्वे रूपे भवतः, पूर्वस्य चान्तोऽकारो वा भवति । मष हिंसायाम्, मषमषः, मष्मषः । मसैच् परिमाणे, मसमसः, मस्मसः ।। १५ ।।
-सु- फलि - कषेरा च ॥ १६॥
एभ्यो अः प्रत्ययो भवति, सरूपे च द्वे रूपे भवतः, पूर्वस्य चान्त आकारो भवति । हृग् हरणे, हरति-नयति शस्त्राण्यस्खलन् लक्ष्यं - हराहर:- योग्याचार्यः । सृ गतौ, धावति वायुना नीयमानः समन्तात् सरासरः- सारङ्गः । फल निष्पत्तौ, फलति निष्पादयति नानाविधानि पुष्पफलानि फलाफलम् - अरण्यम् । कष हिंसायाम्, कषति विदारयति-कषाकषःकृमिजातिः ।। १६ ।
इदुदुपान्त्याभ्यां किदिदुतौ च ॥ १७ ॥
इकारोपान्त्यादुका रोपान्त्याच्च कित् अः प्रत्ययो भवति, स्वरूपे च द्वे रूपे भवतः, पूर्वस्य च यथासंख्यमिकारोकारौ चान्तौ भवतः । किलत् श्वैत्य क्रीडनयोः, किलिकिलः । हिलत् हावकरणे, हिलिहिलः । शिलत् उच्छे, शिलिशिलः छुरत् छेदने, छुरुच्छुरः । मुरत् संवेष्टने, मुरुमुरः । घुरत् भीमार्थ- शब्दयोः, घुरुघुरः । पुरत् अग्रगमने, पुरुपुरः । सुरत् ऐश्वर्य-दीप्त्योः, सुरुसुरः । कुरत् शब्दे, कुरुकुरः । चुरण् स्तेये, चुरुचुरः । हुल हिंसा-संवरणयो, हुलुहुल: । गुजत् शब्दे, गुजुगुजः । गुडत् रक्षायाम् गुडुगुडः । कुटत् कौटिल्ये, कुटुकुट: । पुटत् संश्लेषणे, पुटुपुट: । कुणत् शब्दोपकरणयोः, कुणुकुणः । मुणत् प्रतिज्ञाने मुणुमुणः । अनुकरणशब्दा एते ।। १७ ।।
जजल-तितल - काकोली- सरीसृपादयः ॥ १८ ॥
एते अप्रत्ययान्ता निपात्यन्ते । जल घात्ये, अस्य द्वित्वे पूर्वस्य जभाव:, जजल:, यस्य जाजलिः पुत्रः । तिलत् स्नेहने, अस्य द्वित्वे पूर्वस्य च तिभावे धातोरिकारस्य अकारे तितलः । कुल बन्धु संस्त्यानयोः अस्य दित्वे पूर्वस्य च काभावे - काकोली, क्षीरकाकोलीति च वल्लीजातिः । सृप्लृ गतौ अस्य द्वित्वे गुणाभावे पूर्वस्य च सरीभावे - सरीसृपः - उरगजातिः । आदिग्रहणाद् यथादर्शनमन्येऽपि ॥ १८ ॥
बहुलं गुण - वृद्धी चादेः ॥ १६ ॥
धातोः कित् अः प्रत्ययो भवति, सरूपे च द्वे रूपे भवतः, पूर्वस्य चेकारवन्तो भवतः, यथादर्शनं च गुणवृद्धी भवतः । केलिकिलः, कैलिक्लिश्च - हसनशीलः । हिलत्
T