SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ सूत्र-ε-१४ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्यायः [ ३४१ ऋतष्टित् ॥ ६ ॥ ऋकारान्ताद् धातोरकारः प्रत्ययो भवति, स च बहुलं टित्, धातोश्च सरूपे द्वे रूपे भवतः । दृश् विदारणे, दीर्यते भिद्यतेऽनेन श्रोत्रमिति-दर्दरः वाद्यविशेषः, पर्वतश्च, दर्दरी-सस्यलुण्टिः । कृत् विक्षेपे, कर्करः- क्षुद्राश्मा, कर्करी - गलन्तिका । वृग्श् वरणे वर्वर:म्लेच्छजातिः, वर्वरी - केशविशेषः । भृश्, भरणे, भर्भरः - छद्मवान्, भर्भरी-श्रीः । जुष्च् जरसि, जर्जरः अदृढः, जर्जरी स्त्री । झुषच् जरसि, झर्झरः- वाद्य-विशेषः झर्झरी-झल्लरिका । मृत् निगरणे, गर्गर:- रजर्षिः, गर्गरी- महाकुम्भः । मृश् हिंसायाम् मर्मरः -शुष्कप्रत्रप्रकरः, तद्धर्माऽन्योऽपि, क्षोदासहिष्णुर्मर्मरो दानवश्च । 'मर्मरायां दूर्वायाम्' इत्यत्र टित्वेऽपि ङीर्न भवति बहुलाधिकारात् । तत एव च ऋकारान्तादपि घृ सेचने, घर्घर: सघोषाव्यक्तवाक् घर्घरी - किङ्कणिका ॥९॥ किच्च ॥ १० ॥ ऋकारान्ताद् धातोर्यथादर्शनं किदकारः प्रत्ययो भवति, धातोश्च सरूपे द्वे रूपे भवतः । मृश् हिंसायाम्, मूर्यतेऽनेनेति - मुर्मुरः- ज्वलदङ्गारचूर्णम् । पृश् पालन- पूरणयोः, पूर्यते जलाघातेन – पुर्पुरः फेनः । तू प्लवन तरणयो:, तीर्यतेऽनेनास्मिन् वा-तितिरः- संक्रमः । भृश् भर्जने च, भूर्यते-संचीयते भुर्भु रः संचयः । शृश् हिंसायाम्, शीर्यते समन्तात्- शिशिरःपुञ्जः ।। १० ।। पृ-पलिभ्यां टित् पिपू च पूर्वस्य ॥ ११ ॥ आभ्यां दिः प्रत्ययो भवति, अनयोश्च सरूपे द्वे रूपे भवतः, पूर्वस्य च स्थाने 'पिप्' -इत्यादेशो भवति । पृशु पालन- पूरणयोः, पृणाति छायया-पिप्परी वृक्ष- जातिः । पल् गतौ, पलत्यातुरं - पिप्पली - औषधजातिः । टित्करणं ङयर्थम् ।। ११ ।। क्रमि-मथिभ्यां चन्-मनौ च ॥ १२ ॥ आभ्यामः प्रत्ययो भवति, सरूपे च द्वे रूपे भवतः, पूर्वस्य च स्थाने यथासंख्यं 'चन् मन्' इत्यादेशौ भवतः । क्रमू पादविक्षेपे, क्रामति सुखमनेनास्मिन् वा चङक्रमः- संक्रमः । थे विलोडने, मथति चित्तं रागिणां मन्मथः कामः ।। १२ ।। गमेर्जम् च वा ।। १३ ॥ गमेर : प्रत्ययो भवति, सरूपे च द्वे रूपे भवतः, पूर्वस्य च 'जम्' इत्यादेशो वा भवति । गम्लृ गतौ, गच्छति पादविहरणं करोति जङ्गमः- चरः, गच्छत्य माध्यस्थ्यमिति - गङ्गमः - चपलः ।। १३ ।। अदुपान्त्य-ऋद्भ्यामश्चान्ते ॥ १४ ॥ अकारोपान्त्याद् ऋकारान्ताच्च धातोरः प्रत्ययो भवति, सरूपे च द्वे रूपे भवतः, पूर्वस्य चान्तोऽकारो भवति । पल फल शल गतौ, शलशल: । सल गतौ । सलसलः । हल
SR No.032129
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy