________________
३४० ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[ सूत्र-२-८
अ ॥२ ॥
सर्वस्माद् धातोर्यथाप्रयोगमकारः, प्रत्ययो भवति । भवः, तरः, वरः, प्लवः, शयः, शरः, परः, करः, स्तवः, चरः, वदः ॥२॥
म्लेच्छीडेह स्वश्च वा ॥३॥
* आभ्यामः प्रत्ययो भवति, दीर्घस्य च ह्रस्वो वा भवति । म्लेछ अव्यक्तायां वाचि, म्लिच्छ:-मूकः, म्लेच्छ:-कुमनुष्यजातिः । ईडिक् स्तुती, इड इडश्च-देवताविशेषौ मेदिनी च ।। ३ ॥
नञः क्रमिः-गमि-शमि-खन्याकमिभ्यो डित् ॥ ४॥
नत्रः परेभ्य एभ्यो डित, अः प्रत्ययो भवति । क्रम पादविक्षेपे, न कामति-नक्रःजलचरो ग्राहः । गम्लगतौ, नगः-वृक्षः, पर्वतश्च । शमूच उपशमे, नशः-यक्षः। खनुग अवदारणे, नखः-करजः, नास्य खमस्तीति वा-नख इत्यपि । कमूङ कान्तौ, नाकः-स्वर्गः, नात्राकमस्तीति-नाक इत्यपि, नखादित्वात् "अन् स्वरे" (३-२-१२६) इत्यन् न भवति । डित्करणमन्त्यस्वरादिलोपार्थम् ।। ४ ।।
तुदादि-विषि-गुहिभ्य; कित् ॥ ५॥
तदादिभ्यो विष-गुहिम्यां च कित् अः प्रत्ययो भवति । तुदः, नुदः क्षिपः, सुरः, बुधः, सिवः । सुरत् ऐश्वर्य-दीप्त्योः । तुदादिर्न धातुगणः किं तर्हि ? भिन्न इति, तेन बुधादीनामिति लिङ्गपरिणामस्तु ज्ञेयः, शिवः, तुदादीनां यथासंभवं कारकविधिः । विष्लको व्याप्तौ, वेवेष्टि-विषं प्राणहरं द्रव्यम् गुहौग् संवरणे, गृहति-गुहः स्कन्दः, गुहा पर्वतैकदेशः ।।५।।
विन्देनलुक् च ॥ ६॥
विन्देः कित् अः प्रत्ययो भवति, तत्संनियोगे नस्य लुक् च । विदु अवयवे, विदःगोत्रकृद् वृक्षजातिश्च ॥६॥
कृगो द्वे च ॥७॥
करोतेः कित् अः प्रत्ययो भवति, अस्य च धातोर्द्व रूपे भवतः । डुकृग् करणे, चक्रं रथाङ्गम्, आयुधं च ॥७॥
कनि-गदि-मनेः सरूपे ॥ ८॥
किदिति निवृत्तम्, एभ्योऽकारः प्रत्ययो भवति, एषां च सरूपे-समानरूपे द्वे उक्ती भवतः। कनैदीप्ति-कान्तिगतिषु, कनति-दीप्यते-कङ्कनः-कान्तः। गद व्यक्तायां वाचि, गदति-अव्यक्तं वदति, गद्यते-अव्यक्तं कथ्यते वा गद्गद:-अव्यक्तवाक , गद्गदम्-अव्यक्तं वचनम् । मनिच् ज्ञाने, मन्मन:-अविस्पष्टवाक् । सरूपग्रहणं "व्यञ्जनस्यानादेलुक" (४-१-४४) इत्यादिकार्यनिवृत्त्यर्थम् ॥ ८॥