________________
३३८ ]
बृहवृत्ति-लघुन्याससंवलिते
[पाद-४, सूत्र-६०
न्या० स०-इच्छार्थे कर्मणः-उपपदे इति-उप समीपे पदमिति कृत्वा इच्छार्थेऽग्रेऽपि स्थिते भवति ।
मोजको व्रजतीति-अत्र कर्मतापि नास्तीति व्यावृत्तेर्व्यङ्गविकलत्वमिति न वाच्यं, यतो व्रजति कोऽर्थो बुद्ध्या प्राप्नोति ? किं तत् कर्मतापन्नं भावि भोजनं यतो भोजक इत्यत्र भविष्यदर्थे णकः, यद्वा गत्यर्थत्वात् ज्ञानार्थो वा ततो व्रजतीति कोऽर्थः ? अध्यवस्यति जानाति इत्येक एवार्थः । शक-घृष-ज्ञा-रभ लभ-सहा-ऽहं-ग्ला-घटा-ऽस्ति-समर्थार्थे च तुम्
||५. ४.१०॥ शक्याद्यर्थेषु धातुषु समर्थार्थेषु नामसु च चकरादिच्छार्थेषु धातुषूपपदेषु कर्मभूताद् घातोस्तुम् प्रत्ययो भवति ।
शक्नोति पारयति वा भोक्तुम, घृष्णोत्यध्यवस्यति वा भोक्तुम्, जानाति वेत्ति वा मोक्तुम, प्रारभते प्रक्रमते वा भोक्तुम्, लभते विन्दते वा मोक्तुम, सहते क्षमते वा भोक्तुम, महति प्राप्नोति वा भोक्तुम, ग्लायति म्लायति वा भोक्तुम, घटते युज्यते वा भोक्तुम्, अस्ति विद्यते वा मोक्तुम् , समर्थोऽलं प्रभवति ईष्टे वा भोक्तुम् । समर्थार्थप्रतीतावपि भवति-द्रष्टुं चक्षुः, यो धनुः । 'शक्त्या भुज्यते, सामर्थ्येन भुज्यते' इत्यादौ त्वनभिधानान्न भवति ।
___ इच्छार्थेषु-इच्छति भोक्तुम् , भोक्तु वाञ्छति, भोक्तुम् वष्टि, भोक्तुमभिलषति, समर्थार्थत्वादेव सिद्धे शकग्रहणमसमर्थार्थम् । कर्मण इति च सामर्थ्याच्छकादिष्वर्हपर्यन्तेषु इच्छार्थेषु चोपपदेषु सत्सु सम्बन्धनीयम् । अन्ये तु शकादिषु घटान्तेषु स्वरूपोपवेष्वेवेच्छन्ति, न तदर्थेषु । मतादर्थ्यार्थमकियोपपदार्थ चेदं प्रस्तूयत इति ॥९॥
इत्याचार्यश्रीहेमचन्द्रविरचितायां सिरहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनवृत्ती पञ्चमाध्यायस्य चतुर्थः पादः।
न्या० स०-शकधूषज्ञा-अत्र तुल्यकर्तृक इति यथासंभवं योज्यम् । शक्नोतीति-समापयतीत्यर्थ इति समर्थार्थद्वारा न सिध्यतीति शक्रिग्रहणम् ।
इत्याचार्यश्री सिद्धहेमचन्द्राभिधानस्वोपज्ञ-शब्दानुशासनबृहवृत्तेः पञ्चमाध्यायस्य न्यासत: चतुर्थः पादः समाप्तः।