________________
पाद-४, सूत्र ८७-८६ ]
श्री सिद्धहेमचन्द्र शब्दानुशासने पंचमोऽध्यायः
[ ३३७
द्वैधंभूय द्वैधंभावमास्ते। द्वैधं कृत्वा द्वैधंकृत्य द्वैधंकारं गतः । द्वधा भूत्वा द्वेधाभूय द्वधाभावमास्ते । द्वधा कृत्वा द्वधाकृत्य द्वधाकारं गतः । ऐकध्यं भूत्वा ऐकध्यंभूय ऐकध्यंभावमास्ते । ऐकध्यं कृत्वा ऐकध्यंकृत्य ऐकध्यकारं गतः।
धणस्तु प्रकारविचालवदर्थत्वेनाधार्थत्वाद् अव्ययाधिकाराच्च निरासः । अस्यापि ग्रहणमित्यन्ये । अव्ययाधिकारादेव च-'मुखे तस्यति-मुखतः कृत्वा गत' इत्यत्र न भवति । स्वाङ्गेति किम् ? सर्वतो भूत्वाऽऽस्ते । तसिति किम् ? मुखे भूत्वा गतः । च्व्यर्थेति किम् ? नाना कृत्वा भक्ष्याणि भुङ्क्ते, द्विधा कृत्वा काष्ठानि गतः ।।८६॥
न्या० स०-स्वागतश्चव्यर्थे-नानाभूत्वेति-व्यन्तानां 'गतिक्वन्य' ३-१-४२ इति नित्यं स इत्यत्राय्व्यन्ता एव । अधार्थत्वादिति-धार्थो कि प्रकारो विचालो वाऽयं तु तद्वति ।
अव्ययाधिकाराच्चेति-अव्ययत्वाभावश्चास्य 'अधणतस्वा' १-१-३२ इत्यत्र वर्जनात् । मुखतः कृत्वेति-से: 'दीर्घङ याब्' १-४-४५ लुक भ्वादित्वात् 'अभ्वादेः' १-४-६० इति न दीर्घः, मुखत: करणं पूर्व मुखे उपक्षीणो यः स कृत्वा गत इत्यर्थः।
तूष्णीमा ॥ ५.४.८७॥
तूष्णींशब्देन योगे भवतेर्धातोः संबन्धे क्त्वा-णमौ भवतः तूष्णीं भूत्वा तूष्णीभूय तूष्णींभावमास्ते ।। ८७ ॥
न्या० स०-तूष्णीमा-तूष्णीं भूत्वेति-तूष्णींशब्दो मौने तद्वति च तेनायमों मौनेन सह भूत्वा मौनवान् वा भूत्वास्त इति ।
श्रानुलोम्येऽन्वचा ॥ ५. ४. ८८ ।।
आनुलोभ्यमनुकलता परचित्ताराधनम् , 'अन्वच्' इत्यनेनाव्ययेन योगे भवतेस्तुल्यकतृकेऽर्थे वर्तमानादानुलोम्ये गम्यमाने धातो. संबन्धे क्त्वा-रणमौ भवतः।।
अन्वम् भूत्वा अन्वग्भूय अन्वग्भावमास्ते, अनुकूलो भूत्वा तिष्ठतीत्यर्थः । आनुलोम्य इति किम् ? अन्वग् भूत्वा विजयते शत्रुः, पश्चाद् भूत्वेत्यर्थः। तिर्यचाऽन्वचेति शब्दानुकरणात , तिरश्चाऽनूचेति न भवति ।। ८८ ।।
न्या० स०-आनुलोम्येऽन्वचा-प्रव्ययेनेति अन्वचित्यस्य दिक्शब्दत्वाऽभावाद् धाप्रत्यायाऽभावेऽपि स्वरादिपाठादऽव्ययत्वम् ।
इच्छार्थे कर्मणः सप्तमी ।। ५, ४. ८६ ॥
इच्छार्थे धाता उपपदे तुल्यकतृकेऽर्थे वर्तमानात् कर्मभूताद् धातोः सम्बन्धे सप्तमी विभक्तिर्भवति । कर्मत्वं तुल्यकर्तृ कत्वं च धातोः श्रुतत्वादुपपदापेक्षे।
भुञ्जीयेतीच्छति, भुजीयेति वाञ्छति, भुजीयेति कामयते । इच्छार्थ इति किम् ? भोजको व्रजति । कर्मण इति किम् ? इच्छन् करोति, अत्र करोतीच्छत्योर्लक्ष्यलक्षणभावो न तु कर्म-क्रियाभावः। तुल्यकर्तृ के इति किम् ? इच्छामि भुङ्क्तां भवान् ।।