________________
३३६ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पाद ४, सूत्र-८४-८६
कृगोऽव्ययेनाऽनिष्टोक्तौ क्वाणमौ ॥ ५. ४. ८४ ॥
अव्ययेन योगे करोतेस्तुल्यकर्तृ केऽर्थे वर्तमानादनिष्टायामुक्तौ गम्यमानायां धातोः सम्बन्धे क्त्वाणमौ भवतः।
ब्राह्मण ! पुत्रस्ते जातः, कि तहि वृषल ! नीचैः कृत्वा नीचे कृत्य कथयसि, कि तहि नोचैर्वृषल ! कारं वृषल ! नीचैःकारं कथयसि, उच्चै म प्रियमाख्येयम् । ब्राह्मण ! कन्या ते गभिणी, कि तहि वृषल ! उच्चैः कृत्वा, उच्चैःकृत्य, कथयसि, कि तहि उच्चैवृषल ! कारं वृषलोच्चैःकारं कथयसि, नोचैर्नामाप्रियमाख्येयम् । अनिष्टोक्ताविति किम् ? उच्चैः कृत्वाऽऽचष्टेब्राह्मण ! पुत्रस्ते जात इति, नीचैः कृत्वाऽऽचष्टे ब्राह्मण ! कन्या ते गर्भिणी जातेति । अव्ययेनेति किम् ? ब्राह्मण ! पुत्रस्ते जातः, कि तहि वृषल ! मन्दं कृत्वा कथयसि, ब्राह्मण ! कन्या ते गर्भिणी जातेति कि तहि वृषल ! तारं कृत्वा कथयसि । वाऽधिकारेणैव पक्षे क्त्वाया: सिद्धौ समासार्थ तद्विधानम् , अन्यथा हि णम एव पाक्षिकः समास: स्यात् , न तु क्त्वः। क्त्वा चेत्यकृत्वा णविधानमुत्तरत्रोभयानुवृत्यर्थम् ।।४।।
तिर्यचाऽपवर्गे ।। ५. ४. ८५ ॥
अपवर्ग:-क्रियासमाप्तिः समाप्तिपूर्वको वा विरामः, त्यागो वा । तस्मिन् गम्यमाने 'तिर्यच' इत्यनेनाव्ययेन योगे करोतेस्तुल्यकर्तृ केऽर्थे वर्तमानात् धातोः सम्बन्धो क्त्वा रणमौ प्रत्ययो भवतः ।
तिर्यक्कृत्वा तिर्यक्कृत्य तिर्यक्कारमास्ते, समाप्य विरम्य वा उत्सृज्य वाऽऽस्ते इत्यर्थः । अपवर्ग इति किम् ? तिर्यक्कृत्वा काष्टं गतः ।।५।।
न्या० स०-तिर्यचापवर्गे-तिर्यक्कृत्येति-समाप्त्यादिद्योतकात्तिर्यकशब्दात् प्रथमा, वाचकाद् द्वितीया, तिर्यक् समाप्ति कृत्वा; द्योतकपक्षे समुदायेनार्थः कथ्यते तिर्यकारंलक्षणेन ।
स्वाङ्गतश्च्च्य र्थे नाना-विना धार्थेन भुवश्च ॥ ५. ४.८६ ॥
स्वाङ्गमुक्तलक्षणम् , तस्प्रत्ययान्तेन स्वाङ्गेन च्व्यर्थवृत्तिभिर्नाना-विनाभ्यां धार्थप्रत्ययान्तैश्च योगे भुवः कृगश्च तुल्यकर्तृ केऽर्थे वर्तमानात धातो: सम्बन्धे क्त्वा-णमौ भवत: । वचनभेदाद् धातु-प्रत्यययथासंख्यं नास्ति ।।
मुखतो भूत्वा मुखतोभूय मुखतोभावमास्ते । मुखतः कृत्वा मुखतःकृत्य मुखतःकारमास्ते । पार्श्वतो भूत्वा पार्श्वतोभूय पार्श्वतोभावं शेते । पार्श्वतः कृत्वा पार्श्वत:कृत्य पार्श्वतःकारं शेते । अनाना नाना भूत्वा गतः-नाना भूत्वा नानाभूय नानाभावं गतः । अनाना नाना कृत्वा गतः-नाना कृत्वा नानाकृत्य नानाकारं गतः । एवं-विना भूत्वा विनाभूय विनाभावं गतः । विना कृत्वा विनाकृत्य विनाकारं गतः । धाऽर्था धा-धमञ् एधा-ध्यमत्रः । द्विधा भूत्वा द्विधाभूय द्विधाभावमास्ते । द्विधा कृत्वा द्विधाकृत्य द्विधाकारं गतः । द्वैधं भूत्वा