________________
पाद - ४, सूत्र - ८२-८३ ] श्रीसिद्धम चन्द्रशब्दानुशासने पंचमोऽध्यायः [ ३३५
मनुप्रविश्यानुप्रविश्यास्ते' इत्यादि । वीप्सायामुपपदस्य, श्राभीक्ष्ण्ये तु धातोद्विर्वचनम् । 'गेहानुप्रवेशमास्ते' इत्यादौ तु वीप्साभीक्ष्ण्ये शब्दशक्तिस्वाभाव्यात् समासेनैवोक्ते, इति द्विर्वचनं न भवति । आभोक्षण्ये णम् सिद्ध एव विकल्पेनोपपदसमासार्थं वचनम्, तेन हि समासाभावः स्यात् । वीप्साभीक्ष्ण्य इति किम् ? गेहमनुप्रविश्यास्ते ॥ ८१ ॥
न्या० स० - विशपतपद - गेहानुप्रवेश मिति वाच्यतया यद्यपि ते वीप्साभीक्ष्ण्ये समासस्य न विहिते, तथाप्यऽसावऽभिधानशक्तिस्वाभाव्यात्ते आचष्ट इति न तत् प्रतिपादनाय तत्र द्विर्वचनं प्रवर्त्तते ।
शब्दशक्तिस्वाभाव्यादिति स्वभावे पर्यनुयोगो न हि । णम् सिद्ध एवेति - 'रुणम् चाभीक्ष्ण्ये' ५-४-४८ इति अनेन न वाच्यं 'खित्यनव्य' ३-२-१११ इति मोन्तप्राप्तिः यतस्तस्मिन्समासाभावे विभक्तेरलुपि प्राप्त्यभावात् । विकल्पेनेति - 'तृतीयोक्तं वा ' ३-१-५० इत्यनेन ।
कालेन तृष्यस्वः क्रियान्तरे ।। ५. ४. ८२ ॥
क्रियामन्तरयतीति क्रियान्तरः क्रियाव्यवधायकः, तस्मिन्नर्थे वर्तमानाभ्यां तृष्यसूभ्यां धातुभ्यां द्वितीयान्तेन कालवाचिना योगे धातोः सम्बन्धे णम् वा भवति ।
द्यहं तर्ष व्हर्ष गावः पिबन्ति, व्द्यहमत्यासं व्हात्यासं गावः पिबन्ति, तर्षेणात्यासेन च गवां पानक्रिया व्यवधीयते, श्रद्य पीत्वा व्यहमतिक्रम्य पिबन्तीत्यर्थः । श्रन्तर्मुहूर्तत्यासमन्तर्मुहूर्तात्यासं सम्यक् पश्यन्ति, सम्यग् दृष्ट्वाऽन्तर्मुहूर्तं मिथ्यात्वमनुभूय पुनः सम्यग्दृष्टयो भवन्तीत्यर्थः । कालेनेति किम् ? योजनं तर्षित्वा गावः पिबन्ति, योजनमत्स्य गावः पिबन्ति । तृष्यस्व इति किम् ? उद्यहमुपोष्य भुङ्क्ते । क्रियान्तरे इति किम् ? अहरत्यस्येषून् गतः, इहात्या सेनाहरिषवश्व व्याप्यन्ते न तु गतिक्रिया व्यवधीयते । ८२
न्या० स०- कालेन-द्वयोरह्नोः समाहारः द्वे अहनी समाहृते वा द्विगोरनह्नोऽट्' ७-३-९९ ‘नोपदस्य' ७ - ४ - ६१ इत्यन्तलुक् । प्रहरत्यस्येति - अत्राऽत्यसनेन गतेर्व्यवधानं नास्ति, न हि गत्वा पुनरेकमहरत्यस्य गच्छतीत्येवंविधोऽर्थोऽत्र प्रतिपाद्यते कि त हरिषूनत्यस्य गत इति ।
नाम्ना ग्रहा - SS दिशः ।। ५. ४. ८३ ॥
नामशब्देन द्वितीयान्तेन योगे तुल्यकर्तृकेऽर्थे वर्तमानाद् ग्रहेरादिशश्च धातोः संबन्धे णम् वा भवति ।
नामानि ग्राहं नामग्राहमाह्वयति, नाम्नी देवदत्तो ग्राहं नामग्राहं देवदत्त आह्वयति ; नामान्यादेशं नामादेशं ददाति । पक्षे नाम गृहीत्वा दत्ते, नामाऽऽदिश्य दत्ते ॥ ८३ ॥
न्या० स०-नाम्ना ग्रहा-नाम्नी देवदत्तो ग्राहमिति यस्य येनाभिसंबन्धो दूरस्थस्यापि तेन स इति न्यायाद्देवदत्तपदेन व्यवधानेऽपि भवति ।