________________
३३४-]
बृहद्वृत्ति लघुन्याससंवलिते [ पाद- ४, सूत्र - ७८-८१
द्वितीयया ।। ५ ४७८ ॥
द्वितीयान्तेन योगे धातोस्तुल्यकर्तृ केऽर्थे वर्तमानात् त्वरायां गम्यमानायां धातोः सम्बन्धे णम् वा भवति ।
लोष्टान् ग्राहं लोष्टग्राहं युध्यन्ते, यष्टीग्रहं यष्टिग्राहं युध्यन्ते, दण्डमुद्यामं दण्डोद्यामं धावति, एवं नाम योद्धुं त्वरन्ते यदायुद्धग्रहणमपि नाद्रियन्ते यत्किचिदासन्नं तद् गृह्णन्ति; पक्षे-लोष्टान् यष्टीगृ हीत्वा युध्यन्ते । त्वरायामित्येव खड्गं गृहीत्वा युध्यन्ते । योगविभाग उत्तरार्थः ।। ७८ ।।
-
स्वाङ्गेनाऽध्रुवेण ॥ ४. ४. ७१ ॥
"अविकारोऽद्रवं मूर्तम्" इत्यादिलक्षणं स्वाङ्गम, यस्मिन्नगे छिले भिन्ने वा प्राणी न म्रियते तदध्रुवम् प्रध्रुवेण स्वाङ्गेन द्वितीयान्तेन योगे धातोस्तुल्यकर्तृ केऽर्थे वर्तमानात् धातोः संबन्धे णम् वा भवति ।
,
वौ विक्षेपं विक्षेपं जल्पति, अक्षिणी निकाणमक्षिनिकाणं हसति, केशान् परिधायं केशपरिधायं नृत्यति प्रतिमायाः पादवनुलेपं पादानुलेपं प्रणमति । पक्षे - भ्रुवौ विक्षिप्य जल्पतीत्यादि । स्वाङ्गेनेति किम् ? कफमुनमूल्य जल्पति । अध्रुवेणेति किम् ? शिर उत्क्षिप्य कथयति ॥ ७६ ॥
परिक्लेश्येन ।। ५. ४. ८० ॥
परि समन्तात् किश्यमानं - पीड्यमानं परिकेश्यम्, तेन स्वाङ्गेन द्वितीयान्तेन योगे तुल्यकर्तृ as वर्तमानाद् धातोर्घातोः संबन्धे णम् वा भवति । ध्रुवार्थोऽयमारम्भः ।
उरांसि प्रतिपेषमुरः प्रतिपेषं युध्यन्ते, शिरांसि च्छेदं शिरश्छेदं युध्यन्ते, उरांसि परितः पीडयन्तः शिरांसि छिन्दन्तो युध्यन्त इत्यर्थः । पक्षे- उरांसि प्रतिपिष्य, शिरांसि छित्वा ।। ८० ।
विश-पत-पद स्कन्दो वीप्सा भी दये ॥ ५. ४. ८१ ॥
-55
श्रुतत्वाद विश्यादिक्रियाभिः साकल्येनोपपदार्थानां व्याप्तुमिच्छा वीप्सा, प्रकृत्यर्थस्य पौनःपुन्येनासेवनम् - प्राभीक्ष्ण्यम्, यदाहु: सुप्सु वीप्सा, तिषु अव्ययकृत्सु चाभीक्ष्ण्यमिति । द्वितीयान्तेन योगे विशादिभिस्तुल्यकर्तृ केऽर्थे वर्तमानेभ्यो वीप्सायामाभीक्ष्ण्ये च गम्यमाने. धातोः सम्बन्धे सति णम् वा भवति ।
गेहं गेहमनुप्रवेशं गेहानुप्रवेशमास्ते, गेहमनुप्रवेशमनुप्रवेशं गेहानुप्रवेशमास्ते; गेहंगेहमनुप्रपातं गेहानुप्रपातमास्ते, गेहमनुप्रपातमनुप्रपातं गेहानुप्रपातमास्ते; गेहं गेहमनुप्रपादं गेहानुप्रपादमास्ते, गेहमनुप्रपादमनुप्रपादं गेहानुप्रपादमास्ते; गेहं गेहमवस्कन्दं गेहावस्कन्दमास्ते, गेहमवस्कन्दमवस्कन्दं गेहावस्कन्दमास्ते । पक्षे - 'गेहं गेहमनुप्रविश्यास्ते, गेह