________________
:
पाद- ४, सूत्र ७६-७७ ] श्री सिद्धहेमचन्द्र शब्दानुशासने पंचमोऽध्यायः [ ३३३
पाश्वभ्यामुपपीडं शेते, पार्श्वोपपीडं शेते; पाश्वयोरुपपीडं शेते, पार्श्वोपपीडं शेते; व्रजेनोपरोधं व्रजोपरोधं गाः सादयति, व्रजे उपरोधं व्रजोपरोधं गाः स्थापयति; पाणिनोni groor धानाः पिनष्टि, पाणावुपकर्ष पाण्युपकर्षं धाना गृह्णाति । कर्ष इति शनिर्देशाद् भौवादिकस्य 'कर्षन्ति शाखां ग्रामम्' इति द्विकर्मकस्याकर्षणार्थस्य ग्रहणम्, न तु तौदादिकस्य पञ्चभिर्हलै : कृषतीति विलेखनार्थस्य, तेनभूमावृपकृष्य तिलान् वपति, हलेनोपकृष्य वपतीत्यत्र न भवति । अन्ये त्वनयोरर्थभेदमप्रतिपद्यमानास्तौदादिकादपीच्छन्ति ।
उपेति किम् ? पार्श्वेन निपीड्य तिष्ठति । श्रन्ये तूपपूर्वादेव पीडेरिच्छन्ति, रुध-कर्षाभ्यां तु कामचारेण तेन-व्रजरोधं गाः स्थापयति, हस्तरोधं दधद्धनुः, व्रजेन रोधम् • हस्तेन रोधम् । उपपूर्वादपि व्रजोपरोधं गाः स्थापयति । अन्योपसर्गपूर्वादपि व्रजानुरोधं गाः स्थापयति, एवं पाणिकर्ष धाना गृह्णाति, पाणौ कर्ष, पाणिना कर्षमित्याद्यपि भवति ।। ७५ ।।
न्या० स० उपपीड --पीडन रुधश्च कर्षश्च पीडरुधकर्षम्, उपः पूर्वो यस्मात्तदुपपूर्वं उपपीडं च तत् पीडरुघकर्षं चेति कर्म्मधारयः तस्मात्, निर्देशस्य सौत्रत्वात् कर्षशब्दाऽकारलोपः । रुधकर्षाभ्यां त्विति - उपपूर्वाभ्यामन्योपसर्गपूर्वाभ्यां निरुपसर्गाभ्यां चेत्यर्थः ।
प्रमाण-समासन्त्योः
ः ।। ५. ४. ७६ ॥
आयाममानं प्रमाणं समासत्तिः संरम्भपूर्वकः संनिकर्षः, तयोर्गम्यमानयोस्तृतीयान्तेन सप्तम्यन्तेन च योगे धातोस्तुल्यकर्तृ केऽर्थे वर्तमानाद् धातोः सम्बन्धे, सति णम् वा भवति ।
गुलेनोत्कर्षं द्वङ्गुलोत्कर्षं गण्डिकाश्छिनत्ति, द्वगुले उत्कर्ष द्वयगुलोhi गण्डिकाछिनत्ति । समासत्तौ केशग्रहं केशग्राहं युध्यन्ते, केशेषु ग्राहं केशग्राहं युध्यन्ते, एवं हस्तग्राहम् अस्यपनोदं युध्यन्ते, युद्धसंरम्भादत्यन्तं संनिकृष्य युध्यन्त इत्यर्थः । पक्षेद्वयङ्गुलेनोत्कृष्य द्व्यङ्गुले उत्कृष्य गण्डिकाश्छिनत्ति, केशैगृहीत्वा केशेषु गृहीत्वा युध्यन्ते ।। ७६ ।।
1
न्या० स०-प्रमाणसमास- द्व्यङ्गुलेनोत्कर्ष मिति - द्वघोरङगुल्योः समाहारः संख्याव्यय' ७-३-१२४ इति ङः द्वे अङ्गुलीप्रमाणमस्येति तु न कर्त्तव्यं, तस्मिन् हिन प्रमाणप्रतीतिः किंतु प्रमाणवतः द्वयङ गुलेन दैर्घ्यं परिछिद्य इक्ष्वादेर्गण्डिकाश्छिनत्ति ।
पञ्चम्या त्वरायाम् ।। ५, ४. ७७ ॥
त्वरा परीप्सा औत्सुक्यमिति यावत् तस्यां गम्यमानायां पञ्चम्यन्तेन योगे धातोस्तुल्यकर्तृ केऽर्थे वर्तमानाद् धातोः सम्बन्धे सति णम् वा भवति ।
शय्याया उत्थायं शय्योत्थायं धावति, एवं नाम त्वरते यदावश्यकादिकमपि नापेक्षते । स्तनरन्ध्रादपकर्ष स्तनरन्ध्रापकर्षं पयः पिबति, एवं नाम त्वरते यत् पात्रे दोहमप्यप्रतीक्ष्य मुख एव पयः पिबतीत्यर्थः । पक्षे शय्याया उत्थाय धावति । त्वरायामिति किम् ? आसनादुत्थाय गच्छति ॥ ७७ ॥