________________
३३२ ]
बृहद्वृत्ति- लघुन्यास संवलिते
[ पाद- ४, सूत्र - ७३-७५
उपपूर्वात् करते वनेऽर्थे वर्तमानस्यान्यस्य धातोः संबन्धे सति णम् वा भवति । लवन इति वचनात् तस्यैवेति निवृत्तम् ।
उपस्कारं मद्रका लुनन्ति, विक्षिपन्तो लुनन्तीत्यर्थः । लवन इति किम् ? उपकीर्य गच्छति ।। ७२ ।।
न्या० स ० - उपात्करो - तस्येवेति निवृत्तमिति-इत ऊर्ध्वं तस्यैवान्यस्यैवेति कामचारः परं यत्र तस्यैव तत्र क्रियाविशेषणमेव ।
विक्षिपन्त इति पूर्वं विक्षिपन्तः पश्चाल्लुनन्तीत्यर्थः ।
दंशेस्तृतीयया ॥ ५. ४. ७३ ॥
तृतीयान्तेन योगे उपपूर्वात् तुल्यकर्तृकेऽर्थे वर्तमानाद् दंशेरन्यस्य धातोः संबन्धे सति णम् वा भवति ।
मूलकेनोपदंशं भङ्क्ते, मूलकोपदंशं भुङ्क्ते; आर्द्रकेणोपदंशं भुङ्क्ते, आर्द्र कोपदंशं भुङ्क्ते; पक्षे-मूलकेनोपदश्य भुङ्क्ते, आर्द्रकेणोपदश्य भुङ्क्ते । मूलकाद्युपदंशेः कर्मापि प्रधानस्य भुजेः करणमिति तृतीयैव भवति । प्रधानक्रियोपयुक्त हि कारके गुणक्रिया न स्वानुरूपां विभक्तिमुत्पादयितुमलमप्रधानत्वादेव, यथेष्यते ग्रामो गन्तु, पक्त्वा भुज्यते ओदन इति । यदा त्ववयवक्रियापेक्षया पूर्वकालविवक्षायां क्त्वा क्रियते तदा क्रियाभेदात् संबन्धभेदेद्वितीयाऽपि भवति-मूलकमुपदश्य भुङ्क्ते इति ।। ७३ ।।
हिंसार्था देकाप्यात् ।। ५. ४. ७४ ॥
हिंसा प्राण्युपघातस्तदर्थाद् धातोः संबध्यमानेन धातुना सहैकाप्यात् - एककर्मकात् तृतीयान्तेन योगे तुल्यकर्तृ केऽर्थे वर्तमानात् णम् वा भवति ।
दण्डेनोपघातं गाः सादयति, दण्डोपघातं गाः सादयति । खड्गेन प्रहारं खड्गप्रहारं शत्रून् विजयते दण्डेनाताडं दण्डाताडं गाः कलयति ; पक्षे दण्डनोपहत्येत्यादि । हिंसार्थादिति किम् ? चन्दनेनानुलिप्य जिनं पूजयन्ति । एकाप्यादिति किम् ? दण्डेनाहत्य चौरं गोपालको गाः खेटयति ।। ७४ ।।
न्या० स०स०-हिंसार्थादे - दण्डेनोपघातमिति दण्डशब्दात् हेती करणे वा तृतीया, ननु करणोपपदात् हिंसार्थादपि 'करणेभ्यः' ५-४ - ६४ इति प्रवर्त्तते तत्र च तस्यैवेत्युक्तमिति तस्यैवेति व्यावृत्तिः प्राप्नोति ? सत्यं - 'करणेभ्यः' ५-४-६४ इति सूत्रस्य तस्यैवेति व्यावृत्तिर्गत्यर्थस्यापि हन्तेश्चरितार्था इति करणोपपदादपि ।
उपपीड-रुध-कर्षस्तत्सप्तम्या ॥ ५. ४. ७५ ॥
तया तृतीयया युक्ता सप्तमी - तत्सप्तमी, तदन्तेन योगे उपपूर्वेभ्यः पीड- रुध- कर्षति - तुल्यकर्तृ केऽर्थे वर्तमानेभ्यो धातोः संबन्धे णम् वा भवति ।