________________
पाद, ४ सूत्र - ६९-७२]
श्री सिद्ध हेमचन्द्रशब्दानुशासने पंचमोऽध्यायः
[ ३३१
आधारवाचिनः पराद् बन्धेस्तस्यैव धातोः संबन्धे णम् वा भवति । चक्रबन्धं बद्धः, चारकबन्धं बद्धः, कूटबन्धं बद्धः, गुप्तिबन्धं बद्धः; चक्रादिषु बद्ध इत्यर्थ: । 'ग्रामे बद्धः, हस्ते बद्ध:' इति बहुलाधिकारान्न भवति || ६८ ॥
न्या० स०- आधारात् - बहुलाधिकारान्न भवतीति- ग्रामबन्धं बद्ध इत्यादि न भवतीत्यर्थः ग्रामे बन्धं बद्ध इति तु घञि भवत्येव । आधारादित्यनेन णमि इस्युक्तत्वात् समासः स्यात्, णम् च बाहुलकान्नेष्यते ।
कर्तुर्जीव - पुरुषान्नश वहः ५. ४. ६१ ॥
कर्तृ वाचिभ्यां जीव- पुरुषाभ्यां पराभ्यां यथासंख्यं नशि वहिभ्यां तस्यैव धातोः संबन्धे सति णम् वा भवति ।
जीवनाशं नश्यति, जीवन् नश्यतीत्यर्थः ; पुरुषवाहं वहति, पुरुषः प्रेष्यो भूत्वा वहतीत्यर्थः । कर्तुरिति किम् ? जीवेन नश्यति, पुरुषं वहति ।। ६६ ।।
,
न्या० स० - कर्तु :- जीवनाशमिति - जीवतीत्यच् तस्य कर्त्तुर्नशनम् । पुरुषः प्रेष्यो भूत्वेति पृणाति प्रेषणमित्यत्र पुरुषः क्रियाशब्दः प्रेष्यपर्याय:, अनेकार्थत्वाद् धातूनाम् ।
जीवेन नश्यतीति- इदमर्थकथनं प्रयोगस्तु अस्मिन्नर्थे जीवनाशं नश्यतीत्यादि न भवति, जीवेन नाशं घञन्तं नश्यतीति भवति न तु जीवनाशम् । पुरुषं वहतीति - पुरुषस्य वाहमिति तु भवति, न तु पुरुषवाहमिति ।
ऊर्ध्वात् पूः शुषः ।। ५ ४. ७० ॥
कर्तृवाचिन ऊर्ध्वशब्दात् परात् पूरः शुषश्च तस्यैव धातोः संबन्धे सति णम् वा भवति । पूरीत्यनिर्देशात् पूर्दैवादिको, न चौरादिकः । ऊर्ध्वपूरं पूर्यते, ऊर्ध्वः पूर्यत इत्यर्थः । ऊर्ध्वशोषं शुष्यति, उर्ध्वः शुष्यतीत्यर्थः ॥ ७० ॥
व्याप्याच्चेवात् । ५ ४. ७१ ॥
·
व्यायात् कर्मणश्चकारात् कतुश्चेवात्इवार्थादुपमानार्थात् पराद् धातोस्तस्यैव धातोः संबन्धे सति णम् वा भवति ।
सुवर्णनिधायं निहितः सुवर्णमिव निहित इत्यर्थः । एवं रत्ननिधायम्, घृतनिधाम् । शाकक्लेशं क्लिष्ट:, ओदनपाचं पक्वः । कर्तु :- काकनाशं नष्टः, काक इव नष्ट इत्यर्थः ; एवं - जमालिनाशं नष्टः ; अभ्रविलायं विलोनः, अभ्रमिव विलीन इत्यर्थः ॥७१॥ न्या० स० व्याप्याच्चेवात् - जमालिनाशमिति-जमतीत्यच्, जमं भोजनकारकं ★ अलति वारयति इत्येवंशीलः तदा 'अजातेः शीले' ५ - १ - १५४ णिन्, अलिरिव वा तत्त्वपुष्पैकदेश चुम्बनात्, जमश्चासावलिश्च तस्येव नशनम् ।
उपात् किरो लवने ॥ ५. ४. ७२ ॥