________________
३२० ]
बृहवृत्ति-लघुन्याससंवलिते
[पाद-४, सूत्र-३९-४१
चिरं जीवति मैत्रः। कश्चित् तु समर्थनायां पञ्चमीमिच्छति, परैरशक्यस्य वस्तुनोऽध्यवसायः समर्थना, कश्चिदाह-समुद्रः शोषयितुमशक्यः, स आह-समुद्रमपि शोषयाणि, पर्वतमप्युत्पाटयानि ॥३८॥
न्या० स०-आशिष्याशीः-चिरं जीवतीति-चिर इत्यकारान्तो वा 'कालाध्व' २-२-२३ इति कर्म।
माङयद्यतनी ॥ ५. ४. ३१ ॥ माङ्य पपदे धातोरद्यतनी भवति । सर्वविभक्त्यपवादः ।
मा कार्षीदधर्मम्, मा हार्षीत् परस्वम् । कथं 'मा भवतु तस्य पापं, मा भविष्यति' इति ? असाधुरेवायम् । केचिदाहुरडितो माशब्दस्यायं प्रयोगः ॥३९।।
न्या० स०-मायद्यतनी-केचिदिति-स्वमतेऽप्यङिन्माशब्दप्रयोगोऽस्ति किंतु क्रियायोगेऽङिन्माशब्दस्य प्रयोगो नेष्यते अतः केचिदाहुरित्युक्तम् ।
सस्मे ह्यस्तनी च ।। ५. ४. ४० ॥ स्प्तशब्दसहिते माङय पपदे धातोट स्तनी चकारादद्यतनी च भवति ।
मा स्म करोत् , मा स्म कार्षात् , मा चैत्र ! स्म हरः परदव्यम् , मा चैत्र ! स्म हार्षीः परद्रव्यम् ॥४०॥
न्या० स०-सस्मे शस्तनी च-मा स्म करोदिति-माशब्देन निषेध उच्यते, स्मशब्देन च स एव द्योत्यते ।
धातोः संबन्धे प्रत्ययाः ।। ५. ४. ४१.॥
धातुशब्देन धात्वर्थ उच्यते, धात्वर्थानां संबन्धे-विशेषणविशेष्यभावे सति, अयथाकालमपि प्रत्ययाः साधवो भवन्ति।
विश्वदृश्वाऽस्य पुत्रो भविता, कृतः कटः श्वो भविता, भावि कृत्यमासीत् । विश्वदृश्वेति भूतकालः प्रत्ययो भवितेति भविष्यत्कालेन प्रत्ययेनाभिसंबध्यमान: साधुभवति । एवं कृतः कटः श्वो भवितेति । भावि कृत्यमासीदित्यत्र तु भावीति भविष्यत्काल: प्रत्यय प्रासीदिति भूतकालेन प्रत्ययेनाभिसंबध्यमानः साधुर्भवति । विशेषणं गुणत्वाद् विशेष्यकालमनुरुध्यते, तेन विपर्ययो न भवति । तथा त्याद्यन्तमपि यदाऽपरं त्याद्यन्तं प्रति विशेषणत्वेनोपादीयते तदा तस्यापि समुदायवाक्यार्थापेक्षया कालान्यत्वं भवत्येव ।
"साटोपमुर्वीमनिशं नदन्तो, यैः प्लावयिष्यन्ति समन्ततोऽमी। तान्येकदेशान्निभृतं पयोधेः, सोऽम्भांसि मेधान् पिबंतो ददर्श ॥ (रघु०३ सर्गे)
अत्र प्लावयिष्यन्तीति भविष्यदर्थस्य ददर्शति भूतानुगमः । बहुवचनात् अधात्वधिकारविहिता अपि प्रत्ययास्तद्धिता धातुसंबन्धे सति कालभेदे साधवो भवन्ति-गोमानासीत् , गोमान् भविता, अस्तिविवक्षायां हि मतुरुक्तः स कालान्तरे न स्यादिति ॥४१॥