________________
पाद-४, सूत्र-३६-३८ ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्यायः
[३१९
दर्हति । सप्तम्या बाधो मा भूदिति कृत्यग्रहणम् । बहुवचनमिहोतरत्र च यथासंख्यनिवृत्यर्थम् ।।३।।
न्या० स०-शक्ता:-गम्यमाने इति-न तु वाच्य एवेत्यर्थः । भवान् खलु कन्यां वहेदितिअत्राहे कर्तरि वाच्ये व्यक्तिव्याख्यानादनेन सप्तमी, अन्यथाऽर्हे कर्तरि 'अहें तृच्' ५.४-३७ इति परत्वात् तृजेव स्यात्, भावकर्मणोरस्य चरितार्थत्वात् । यथासंख्यनिवृत्त्यर्थमितिननु समुच्चीयमानेन सह यथासंख्यस्य 'राष्ट्रक्षत्रिय' ३-१-११४ इत्यत्रापत्यग्रहणेन निरस्तत्वात् व्यर्थं बहुवचनम् ? सत्यं,-ज्ञापकज्ञापिका विधयो ह्यऽनित्या इति न्यायज्ञापनार्थम् ।
णिन् चाऽऽवश्यकाऽधमर्ये ॥ ५. ४. ३६ ॥
अवश्यंभाव आवश्यकम्, ऋणेऽधमोऽधमणः, तस्य भाव आधमर्ण्यम् । आवश्यके आधमये च गम्यमाने कर्तरि वाच्ये धातोणिन् कृत्याश्च भवन्ति ।
अवश्यं करोतीति-कारी, हारी। यदा त्ववश्यमोऽपि प्रयोग उभाभ्यामपि द्योत. नात् तदा मयूरव्यंसकादित्वात् समासः-अवश्यंकारी, अवश्यंहारी। अवश्यशब्दप्रयोगे तुअवश्यकारी, अकारान्तोऽपि ह्यनव्ययमवश्यशब्दोऽस्ति । अवश्यं गेयो गाथको गीतस्य, अवश्यं भव्यश्चैत्रः। आधमये-शतं दायी, सहस्र दायी, कारी मे कटमसि, हारी मे भारमसि, गेयो गाथानाम् । णिना बाधो मा भूदिति कृत्यविधानम् । कृत्त्वाच्च कर्तरि णिनो विधानाव कृत्यानामपि कर्तर्येव विधानम्, भाव-कर्मणोस्तु सामान्येन विधानात सिद्धा एव बाधकाभावात् ॥३६॥
__न्या स०-णिन् चावश्य-अवश्यं करोतीत्यादीनि वाक्यानि सामान्यविशेषभावेन उदाहारिषत अवश्य भावे तु गम्यमाने नित्यमेव णिन् कृत्याश्च, वाक्यं त्ववश्यं विधायीत्यादि धात्वन्तरेण कार्यम् । कर्तयेव विधानमिति-ये पूर्व भव्यगेय' ५-१-७ इत्यादिषु कर्तरि विहितास्त एवेह ज्ञायन्ते इत्यर्थः, यद्वा भावकर्मणोरपि ये विहितास्तेऽत्र कर्तरि भवन्तीत्यर्थः । बाघकाभावादिति-कर्तर्येव णिना बाध्यन्ते, न भावकर्मणोः ।
अर्हे तृच ॥ ५, ४. ३७ ॥
अर्हे कर्तरि वाच्ये धातोस्तृच् प्रत्ययो भवति । भवान् कन्याया वोढा, भवान् खलु च्छेदसूत्रस्य वोढा । सप्तम्या बाधा मा भूदित्य तृज्विधानम् ॥३७॥
न्या० स०-प्र] तृच् सप्तम्या बाधा माभूदिति-'शक्ताह' ५-४-३५ इति विहि, तया, सप्तम्येत्युपलक्षणं कर्तृ विहितैः कृत्यैरपि बाधा माभूदिति तृविधानम् ।
आशिष्याशीः पञ्चम्यौ ।। ५. ४. ३८ ॥
आशासनमाशीः, प्राशीविशिष्टेऽर्थे वर्तमानाद् धातोराशीः- पञ्चम्यौ विभक्ती भवतः।
जीयात्, जीयास्ताम्, जीयासुः; जयतात, जयताम्, जयन्तु । आशिषीति किम् ?