________________
३१८ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पाद-४, सूत्र-३३-३५
मानायां धातोः पञ्चमी भवति । सप्तम्यपवादः।
अङ्ग स्म विद्वन्नणुव्रतानि रक्ष, शिक्षाः प्रतिपद्यस्व ।।३२॥
न्या० स०-अधीष्टौ-पृथगयोगादिति-स्मेऽधीष्टौ च पञ्चमीत्यकरणात् । सप्तम्यपवाद इति-अधीष्टावर्थे 'विधिनिमन्त्रण' ५-४-२८ इति प्राप्तायाः । अङ्गशब्दः प्रकाशे कोमलामन्त्रणे वा।
काल-वेला-समये तुम् वाऽवसरे ॥ ५. ४. ३३ ॥ काल-वेला-समयशब्देषूपपदेष्ववसरे गम्यमाने धातोस्तुम् प्रत्ययो वा भवति ।
कालो भोक्तुम्, वेला भोक्तुम्, समयो भोक्तुम् । वावचनाद् यथाप्राप्तं च-कालो भोक्तव्यस्य । 'ऊर्ध्व मुहूर्ताव कालो भोक्तुम , ऊवं मुहूर्ताद् भोक्तुस्म कालः, अङ्ग स्म राजन् ! भोक्तु काल' इत्येतेषु परत्वात् तुमेव । अवसर इति किम् ? काल: पचति भूतानि, कालोऽत्र द्रव्यं न त्ववसरः ॥३३॥
___ न्या० स०-कालवेला-कालोभोक्तुमिति-'प्रैषानुज्ञा' ५-४-२९ इति प्राप्तेऽयं विकल्प इति भुज्यतां भोक्तव्यस्य चेति वाक्ये तुमि षष्ठ्येकवचनस्य 'अव्ययस्य' ३-२-७ इति लुप् । कालो भोक्तव्यस्येति-प्रैषादि सूत्रेण तव्य इति भुज्यतामिति वाक्यं, विकल्पपक्षे प्रैषादीति प्रवर्तत इत्यत्र सूत्रे कालो भोजनस्येति वालितम् । परत्वात्तमेवेति-उर्व मुहूर्तात् कालो भोक्तुमित्यादिप्रयोगत्रये । ननु तुम् विकल्पेन भवति तत्कथं तुमेवेत्युक्तम् ? उच्यते,विकल्पेन तुमेव भवति नानडादयः, 'सप्तमी चोर्ध्व' ५-३-१२ 'स्मे पञ्चमी' ५-४-३१ इति 'अधीष्टौ' ५-४-३२ इति च यथाक्रम प्रवर्तत एव ।
सप्तमी यदि ॥५. ४. ३४ ॥ यदि-यच्छन्दप्रयोगे सति कालादिषूपपदेषु धातोः सप्तमी भवति । तुमोऽपवादः ।
कालो यदधीयीत भवान् , वेला यद् भुञ्जीत भवान् , समयो यच्छयोत भवान् । बहुलाधिकारात् 'कालो यदध्ययनस्य, वेला यद् भोजनस्य, समयो यच्छयनस्य' इत्याद्यपि भवति ।।३४॥
न्या० स०-सप्तमी यदि-इत्याद्यपि भवतीति-यच्छब्दप्रयोगेऽनेन सप्तमी विहितेति अनट् न प्राप्नोति, बाहुलकात् तु सोऽपि भवतीत्यर्थः ।
शक्ताऽर्हे कृत्याश्च ॥ ५, ४.३५ ।। शक्तेऽहं च कर्तरि गम्यमाने धातोः कृत्याः सप्तमी च भवति ।
भवता खलु भारो वाह्यः, वोढव्यः, वहनीयः, उह्य त, भवान् भारं वहेत्, भवान् हि शक्तः । अर्हे-भवता खलु कन्या वाह्या, वोढव्या, वहनीया, भवान् खलु कन्यां वहेत्; भवता खलु छेदसूत्रं वाह्यम्, वोढव्यम्, वहनीयम्, भवान् खलु च्छेदसूत्रं वहेत; भवानेत