________________
पाद-४, सूत्र २६-३२ ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्यायः
[३१७
यद्यपि वृत्तौ व्याख्यानेनापि सिध्यति तथापि सूत्रे एषामुपादानं सुखावसेयं भवतीति । तत्वज्ञानमित्यादि-तत्वज्ञानं कर्मतापन्नं नोऽस्मभ्यं प्रसादपूर्वकं दद्युः प्रसीदेयु: गुरुपादाः, अथवा तत्वज्ञानरूपक्रियाविशेषणमिदम् नोऽस्माकं प्रसीदेयुः ।
प्रैषा-ऽनुज्ञा-ऽवसरे कृत्य-पञ्चम्यौ ॥ ५. ४. २१ ॥
प्रेषादिविशिष्टे कळवावर्थे धातोः कृत्यप्रत्ययाः पञ्चमी च विभक्तिर्भवति । न्यत्कारपूर्विका प्रेरणा-प्रेषः, अनुज्ञा-कामचारानुमतिः, अतिसर्ग इति यावत् । अवसर:प्राप्तकालता निमित्तभूतकालोपनतिः।
भवता खलु कटः कार्यः कर्तव्यः करणीयः कृत्यः, भवान् कटं करोतु, भवान् हि प्रेषितोऽनुज्ञातो भवतोऽवसर: कटकरणे । यद्यपि कृत्याः सामान्येन भाव-कर्मणोविहितास्तथापि सर्वप्रत्ययापवादभूतया पञ्चम्या बाध्येरनिति पुनविधीयन्ते । अनुज्ञायां केचित् सप्तम्येवेत्याहुः-अतिसृष्टो भवान् ग्रामं गच्छेत् ।।२९ ।
न्या० स०-प्रेषानुज्ञावसरे-कामचारानुमतिरिति-केनचित् पुंसा कश्चित् पृष्टो यदुताहं कटं करोमि ततस्तेन कटमयं करोतु मा वेति मनसिकृत्वा एवमुच्यते कुरु इति, ततः स्वेच्छाप्रच्छ कस्य कदाचिदेवमुच्यतेऽवश्यं कुरु, ततो नियोगः; प्रच्छकस्यैवंविधानुज्ञाऽत्र सूत्रे न गृह्यते।
सप्तमी चोर्ध्वमौहर्तिके ॥ ५. ४. ३०॥
ऊर्ध्व मुहूर्तादुपरि मुहूर्तस्य भवोऽर्थ ऊर्ध्वमौहतिकः, तस्मिन् वर्तमानाद धातो: प्रेषादिषु गम्यमानेषु सप्तमी कृत्याः पञ्चमी च भवन्ति । ऊवं मुहूर्तात् कटं कुर्याद् भवान् , कार्यः कर्तव्यः करणीयः कृत्यः कटो भवता, कटं करोतु भवान् , भवान् हि प्रेषितोऽनुज्ञातो भवतोऽवसरः कटकरणे ॥३०॥
__ न्या० स०-सप्तमी चोर्ध्व-ऊर्ध्वमौहत्तिक इति-कालादन्यत्र 'वर्षाकालेभ्यः' ६-३.८० इति न सिध्यति इत्यध्यात्मादिभ्य इकण् ।
स्मे पञ्चमी ।। ५. ४. ३१ ॥
स्मशब्द उपपदे प्रेषादिषु गम्यमानेषु उर्ध्वमौहूतिकेऽर्थे वर्तमानाद् धातोः पञ्चमी भवति । कृत्यानां सप्तम्याश्चापवादः ।
ऊर्ध्वं मुहूर्ताद् भवान् कटं करोतु स्म, भवान् हि प्रेषितोऽनुज्ञातो भवतोऽवसरः कटकरणे इति ॥३१॥
न्या० स० स्मे पञ्चमी-स्मशब्दः स्पष्टाथः । अधीष्टौ ॥ ५. ४. ३२ ॥ ऊर्ध्वमौहूतिक इति निवृत्तम्, पृथग्योगात् । स्म उपपदेऽधीष्टावध्येषणायां गम्य