________________
पाद-४, सूत्र-१२-१४ ] श्री सिद्ध हेम चन्द्रशब्दानुशासने पंचमोऽध्यायः
[ ३११
वावचनाद् यथाप्राप्तं च- कथं सेवते, धिग् गर्हामहे । उतात् प्रागिति किम् ? कालो यदभोक्ष्यत भवान् । भूत इत्येव ? एष्यति नित्यमेव ॥। ११॥
न्या० स० - वोतात् प्राक् - श्राधाय कृतमिति - 'अव्ययं प्रवृद्धादिभि:' ३-१-४८ इति सः । असेविष्यतेति - 'कथमि सप्तमी च वा ५-४ -१३ इति सप्तम्यर्थः । यदभोक्ष्यतेति - अत्र सप्तमी यदि' ५-४-३४ इति सप्तम्यर्थता ततो भूते क्रियातिपत्तिः ।
क्षेपेऽपि - जावोर्वर्तमाना ॥ ५. ४. १२ ॥
भूत इति निवृत्तम्, क्षेपो गर्हा, तस्मिन् गम्यमानेऽपि जात्वोरुपपदयोर्धातोर्वर्तमाना विभक्तिर्भवति । कालसामान्ये विधानात् कालविशेषे विहिता अपि प्रत्ययाः परत्वादनेन बाध्यन्ते ।
श्रपि तत्रभवान् जन्तून् हिनस्ति, जातु तत्रभवान् भूतानि हिनस्ति, अपि संयतः सन्ननागाढे तत्रभवानाधायकृतं सेवते, धिग् गर्हामहे । इह सप्तमीनिमित्ताभावात् क्रियातिपतने क्रियातिपत्तिर्नोदाह्रियते ।। १२ ।।
न्या० स०-क्षेपेऽपिजा - भूत इति निवृत्तमिति क्रियातिपत्तिसंबद्धत्वात् भूतस्य ।
कथमि सप्तमी चवा | ५. ४, १३ ॥
कथं शब्दे उपपदे क्षेपे गम्यमाने धातोः सर्वेषु कालेषु सप्तमी चकाराद् वर्तमाना च विभक्ती वा भवतः । वावचनाद् यथाप्राप्तं च ।
कथं नाम तत्रभवान् मांसं भक्षयेत्, मांसं भक्षयति, धिग् गर्हामहे, अन्याय्यमेतत् । पक्षे- अबभक्षत्, प्रभक्षयत्, भक्षयांचकार, भक्षयिता, भक्षयिष्यति । अत्र सप्तमीनिमित्तमस्तीति भूते क्रियातिपतने वा क्रियातिपत्तिर्भवति कथं नाम तत्रभवान् मांसमभक्षयिष्यत्, भक्षयेत्, भक्षयति, अबभक्षत्, अभक्षयत् भक्षयांचकार । भविष्यति तु क्रियातिपतने नित्यमेव क्रियातिपत्तिः कथं नाम तत्रभवान् मांसमभक्षयिष्यत्, न तु वर्तमाना- सप्तमीभविष्यन्तीश्वस्तन्यः । क्षेप इत्येव ? कथं नाम तत्रभवान् साधूनपूपुजत्, एवं यथाप्राप्ति वर्तमानादयो भवन्ति ।। १३ ।।
किंवृत्ते सप्तमी भविष्यन्त्यौ । ५ ४ १४ ॥
feवृत्त उपपदे क्षेपे गम्यमाने धातोः सप्तमी - भविष्यन्त्यौ भवतः सर्वविभक्त्य
1
पवादः ।
1
fie तत्रभवाननृतं ब्रूयात् किं तत्रभवान् अनृतं वक्ष्यति, को नाम कतरो नाम कतमो नाम यस्मै तत्रभवाननृतं ब्रूयात्, अनृतं वक्ष्यति । अत्रापि सप्तमीनिमित्तमस्तीति भूते क्रियातिपतने वा क्रियातिपत्तिः किं तत्रभवाननृतमवक्ष्यत्, पक्ष- ब्रूयात् वक्ष्यति च । भविष्यति तु नित्यम् तत्रभवाननृतमवक्ष्यत् । क्षेप इत्येव ? कि तत्रभवान् देवान पुजदित्यादि ॥ १४॥