________________
३१० ।
बृहद्वृत्ति लघुन्याससंवलिते
[पाद-४, सूत्र-९-११
स्मिन्नध्वनि वलभ्याः परस्तात् द्विरोदनं भोक्तास्महे । प्रबन्धासत्योस्तु नित्यं भविष्यन्ती-आ शत्रुञ्जयाद् गन्तव्येऽस्मिन्नध्वनि वलभ्याः परस्तादविच्छिन्नं सूत्रमध्येष्यामहे ।
पर इति किम् ? अर्वाग्भागे पूर्वेण नित्यं प्रतिषेधः । एष्यतीत्येव ? अतीते वत्सरे परस्तादाग्रहायण्याः सूत्रं युक्ता अध्येमहि । अवधावित्येव ? योऽयमागामी निरवधिकः कालस्तस्य यत् परमाग्रहायण्यास्तत्र द्विरध्येतास्महे । अनहोरात्राणामित्येव ? योऽयं त्रिशद्रात्र आगामी तस्य यः परः पञ्चदशरात्रस्तत्र युक्ता अध्येतास्महे ॥८॥
न्या० स०-परे वा-अयमेव विकल्प इति-न तू 'नानद्यतन' ५-४-५ इति नित्यं निषेधः । नित्यं भविष्यन्तीति-'नानद्यतन' ५-४-५ इति श्वस्तन्या निषेधात् ।
सप्तम्यर्थे क्रियातिपत्तौ क्रियातिपत्तिः॥ ५. ४. १ ।।
सप्तम्या अर्थों निमित्तं हेतु-फलकथनादिका सामग्री । कुतश्चिद् वैगुण्यात क्रियाया अतिपतनमनभिनिर्वृत्तिः-क्रियातिपत्तिः, तस्यां सत्यामेष्यत्यर्थे वर्तमानाद् धातोः सप्तम्यर्थे क्रियातिपत्तिविभक्तिर्भवति ।
दक्षिणेन चेदयास्यन्न शकटं पर्याभविष्यत् , यदि कमलकमाह्वास्यन्न शकटं पर्याभविष्यत, प्रत्र दक्षिणगमनं कमलकाद्वानं च हेतुरपर्याभवनं फलम्, तयोः कुतश्चित् प्रमाणाद् भविष्यन्तीमनभिनिवृत्तिमवगम्यैवं प्रयुङ्क्ते । एवमभोक्ष्यत भवान् घृतेन यदि मत्समीपमागमिष्यत्, स यदि गुरूनुपासिष्यत शास्त्रान्तमगमिष्यत् ॥९॥
भूते ।। ५.४.१०॥
भूतेऽर्थे वर्तमानाद् धातोः क्रियातिपत्तौ सत्यां सप्तम्यर्थे क्रियातिपत्तिविभक्तिभवति । "सप्तम्युताऽप्योर्बाढे" ( ५-४-२१ ) इत्यारभ्य सप्तम्यर्थेऽनेन विधानम् , ततः प्राक् "वोतात् प्राक्" (५-४-११) इति विकल्पो वक्ष्यते।
दृष्टो मया भवतः पुत्रोऽनार्थी चंक्रम्यमाणः; अपराश्चातिथ्यर्थी, यदि स तेन दृष्टोऽभविष्यत् उताभोक्ष्यत अप्यमोक्ष्यत, न तु दृष्टोऽन्येन पथा गत इति न भुक्तवान् ।।१०
न्या० स०-मूते-दृष्टोऽभविष्यदिति-अत्राश्रद्धाया गम्यमानत्वात् 'जातुयद्यदा' ५-४-१७ इति सप्तमीनिमित्तत्वम् ।
उताभोक्ष्यतेति-'सप्तम्युताप्यो ढे' ५-४-२१ इति सप्तम्यर्थः । वोतात् प्राक् ॥ ५, ४. ११ ॥
"सप्तम्युताऽप्यो ढे" (५-४-२१) इत्यत्र यद् उतशब्दसंकीर्तनं ततःप्राक् सप्तमीनिमित्त क्रियातिपत्तौ सत्यां भूतेऽर्थे वर्तमानाद् धातोर्वा क्रियातिपत्तिर्भवति ।
कथं नाम संयतः सन्ननागाढे तत्रभवान् प्राधायकृतमसेविष्यत, पिग गर्हामहे ।