________________
पाद-४, सूत्र-७-८ ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्यायः
[३०९
द्विरोदनं भोक्तास्महे, द्विः सक्तून् पातास्मः। अर्वाग्भाग इति किम् ? योऽयमध्वा गन्तव्य आ शत्रुजयात् तस्य यत् परं वलभ्यास्तत्र द्विरोदनं भोक्तास्महे, द्विः सक्तून् पातास्मः॥६॥
न्या० स०-एष्यत्यव-अत्र सूत्रे देशः प्रदेशमात्रं तेनाऽध्वनोऽपि देशता 'कालाध्वभाव' २-२-२३ इत्यत्र तु देशो राष्ट्रादिः, अत एव तत्र देशे सत्यपि अध्वग्रहणम् ।
कालस्याऽनहोरात्राणाम् ॥ ५. ४.७॥
कालस्य योऽवधिस्तद्वाचिन्युपपदे कालस्यैवाग्भिागे य एष्यन्नर्थस्तत्र वर्तमानाद् धातोरनद्यतनविहितः प्रत्ययो न भवति । अनहोरात्राणां-न चेत् सोऽर्वाग्भागोऽहोरात्राणां संबन्धी भवति?
योऽयमागामी संवत्सरस्तस्य यदवरम आग्रहायण्यास्तत्र जिनपूजां करिष्यामोऽतिथिभ्यो दानं दास्यामहे । एष्यतीत्येव-योऽयं संवत्सरोऽतीतस्तत्र यदवरमाग्रहायण्यास्तत्र युक्ता द्विरध्यमहि । अवधावित्येव-योऽयमागामी निरवधिकः कालस्तत्र यदवरमाग्रहायण्यास्तत्र युक्ता अध्येतास्महे । अर्वाग्भाग इत्येव-परस्मिन् विभाषा वक्ष्यते । अनहोरात्राणामिति किम् ? योऽयं मास आगामी तस्य योऽवरः पञ्चदशरात्रश्तत्र युक्ता द्विरध्येतास्महे, योऽयं त्रिंशद्रात्र आगामी तस्य योऽवरोऽर्धमासस्तत्र द्विरोदनं भोक्तास्महे । योऽयं त्रिंशद्रात्र आगामी तस्य योऽवर: पञ्चदशरात्रस्तत्र द्विः सक्तून् पातास्म इति त्रिविधेऽप्यहोरात्र संबन्धे मा भत । योगविभाग उतरार्थः । बहुवचनं कालस्येति सामानाधिकरण्यभ्रमनिर। सार्थम् ॥७॥
न्या० स०-कालस्यान-प्राग्रहायण्या इति-अग्रं हायनस्य 'द्वित्रिचतुष्पुरण' ३-१-५६ इति समासः, 'पूर्वपदस्था' २-३-६४ इति णत्वम्, ततः स्वार्थे अण् ङीः । अनहोरात्राणामिति किमिति-यत्राहः शब्दो रात्रिशब्दो वा प्रयुज्यते तत्राहोरात्रत्वम् । पञ्चदशरात्र इतिअत्र कालसंबन्धी तादात्म्येनाऽहोरात्ररूपोऽर्वाग्भागः। योऽवरोऽर्धमास इति-अत्र कालोऽहोरात्ररूपस्तस्य संबन्धी अवयवावयविभावेनाऽर्वाग्भागः।
. पञ्चदशरात्र इति-अत्र कालोऽर्वाग्भागश्चाहोरात्ररूपः । सामानाधिकरण्यभ्रमनिरासार्थमिति-कालस्य किंभूतस्याऽनहोरात्रस्येत्येवं सामानाधिकरण्यं निषिध्यते, काल
मानाधिकरण्ये हि व्यावृत्तिप्रथमोदाहरणेऽपि सूत्रप्रवत्तौ श्वस्तनीनिषेधः स्यात, अत्रापि कालस्यानहोरात्ररूपत्वात् , वैयधिकरण्ये तु त्रिम कारेऽपि कालसंबन्धे व्यावृत्तिर्भवति ।
परे वा ॥ ५. ४.८॥
कालस्य योऽवधिस्तद्वाचिन्युपपदे कालस्यैव परस्मिन् भागेऽनहोरात्रसंबन्धिनि य एष्यन्नर्थस्तत्र वर्तमानात् धातोरनद्यतनविहितः प्रत्ययो वा न भवति ।
आगामिनः संवत्सरस्याग्रहायण्याः परस्ताव द्विः सूत्रमध्येष्यामहे, अध्येतास्महे वा। प्रबन्धासत्तिविवक्षायामपि परत्वादयमेव विकल्पः-आगामिनः संवत्सरस्याग्रहायण्या: परस्तादविच्छिन्नं सूत्रमध्येष्यामहे, अध्येतास्महे वा। कालस्येत्येव-मा शत्रुञ्जयाद् गन्तव्येऽ