________________
३०८ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पाद-४, सूत्र-६
प्रबन्धः सातत्यम्, आसत्तिः सामीप्यम्, तच्च कालतः, सजातीयेन कालेनाव्यवहितकालतेति यावत् । धात्वर्थस्य प्रबन्धे आसत्तौ च गम्यमानायां धातोरनद्यतनविहितः प्रत्ययो न भवति। भूतानद्यतने मस्तनो भविष्यदनद्यतने च श्वस्तनी विहिता तयोः प्रतिषेधः।
यावज्जोवं भृशमन्नमदात्, यावज्जीवं भृशमन्नं दत्तवान्, यावज्जीवं भृशमन्नं दास्यति ; यावज्जीवं युक्तोऽध्यापिपत, यावज्जीवं युक्तोऽध्यापयिष्यति । आसत्तौ खल्वपियेयं पौर्णमास्यतिक्रान्ता एतस्यां जिनमहः प्रावतिष्ट, प्रवृत्तः। येयं पौर्णमास्यागामिनी अस्यां जिनमहः प्रवतिष्यते । द्वौ प्रतिषेधौ यथाप्राप्तस्याभ्यनुज्ञानाय । केचित् तु-अनद्यतनविशेषविहितानामपि परोक्षादीनां प्रतिषेधमिच्छन्ति ॥५॥
__ न्या० स०-नानद्यतन:-न अद्यतनोऽनद्यतन इति कार्य, न तु न विद्यतेऽद्यतनो योति, यतो बहवीहेापकत्वात परोक्षाया अपि निषेधः स्यात, तत्राप्यद्यतनो नास्तीति कृत्वा । नञ्तत्पुरुषे तु सामान्येन कृते विशेषो नान्तर्भवति, सामान्यमध्ये विशेषाऽयोगात् । तयोः प्रतिषेध इति-* सामान्यातिदेशे विशेषानतिदेश * इति न्यायात् सामान्यानद्यतनस्यैव प्रतिषेधो न विशेषानद्यतनस्य, तेन परोक्षाया न प्रतिषेधः ।
- यावज्जीवमिति-यावन्तं कालं जीव्यते भावे 'यावतो विन्दजीवः' ५-४-५५ यावच्छब्दात् 'कालाध्वनो' २-२-४२ 'कालाध्व' २-२-२३ इति वा द्वितोया यावज्जीवं शब्दात्तु प्रथमासिः, यावज्जीवं यावद्वर्त्तते तावददातीत्यर्थः ।
यथाप्राप्तस्याभ्यनुज्ञानायेति- द्वौ नौ प्रकृतार्थं गमयत * इति न्यायात् । ननु प्रबन्धासत्त्योरिति विधिसूत्रं कर्त्तव्यं विधिप्रतिषेधसंभवे हि विधेरेव ज्यायस्त्वात् , एवमपि ते अद्यतनी भविष्यन्ती सेत्स्यतः ? नैवं, अद्यभवोऽद्यतनः, अनया व्युत्पत्त्या वतमानापि स्यात् ।
प्रतिषेधमिच्छन्तीति-स्वमते तु के सामान्यातिदेशे विशेषस्यानतिदेशात् * परोक्षादीनां न निषेधः, एवं च भूतानद्यतने अद्यतनीक्तप्रत्यययोविधिर्भविष्यदनद्यतने च भविष्य. न्त्या एव।
एष्यत्यवधौ देशस्याग्भिागे ॥ ५. ४. ६ ॥
देशस्य योऽवधिस्तद्वाचिन्युपपदे देशस्यैवाग्भिागे य एष्यन्नर्थस्तत्र वर्तमानाद् धातोरनद्यतनविहितः प्रत्ययो न भवति । अप्रबन्धार्थमनासत्त्यर्थं च वचनम् । यद्यप्यनद्यतन इति प्रकृतं तथापोहैष्यतीति वचनात श्वस्तन्या एव निषेधः ।
योऽयमध्वा गन्तव्य आ शत्रुञ्जयात् तस्य यदवरं वलभ्यास्तत्र द्विरोदनं भोक्ष्यामहे, द्विः सक्तून् पास्यामः । योऽयमध्वा गन्तव्य आ पाटलिपुत्रात तस्य यदवरमधं (कौशाम्ब्याः ) तत्रोदनं भोक्ष्यामहे । एष्यतीति किम् ? योऽयमध्वातिकान्त आ शत्रुञ्जयात् तस्य यदवरं वलभ्यास्तत्र युक्ता द्विरध्यमहि, द्विः सक्तूनपिबाम ।
अवधाविति किम् ? योऽयमध्वा निरवधिको गन्तव्यस्तस्य यदवरं वलभ्यास्तत्र