________________
३१२ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पाद-४, सूत्र-१५-१६
अश्रद्धाऽम न्यत्रापि ॥ ५. ४. १५ ॥
क्षेप इति निवृत्तम् , प्रश्रद्धा-असंभावना, अमर्षोऽक्षमा, अन्यत्र-अकिंवृत्ते, अपिशब्दात् किंवृत्ते चोपपदेऽश्रद्धाऽ-मर्षयोर्गम्यमानयोर्धातोः सप्तमी-भविष्यन्त्यौ भवतः । सर्वविभक्त्यपवादः, वचनभेदाद् यथासंख्यं नास्ति ।
अश्रद्धायाम्-न श्रद्दधे, न संभावयामि नावकल्पयामि तत्रभवान् नामाऽदत्तं गृह्णीयात , ग्रहीष्यति । किंवृत्तेऽपि-न श्रद्दधे न संभावयामि नावकल्पयामि किं तत्रभवान् नामाऽदत्तमाददीत, अदत्तमादास्यते। अमर्षे-न मर्षयामि न क्षमे, धिग् मिथ्या, नैतदस्ति, तत्रभवान् नामाऽदत्तं गृह्णीयात् , अदत्तं ग्रहीष्यति । किंवृत्तेऽपि-न मर्षयामि न क्षमे, धिग् मिथ्या, नैतदस्ति, किं तत्रभवानदत्तं गृह्णीयात् , अदत्तं ग्रहीष्यति । अत्रापि सप्तमीनिमित्तमस्तीति भते क्रियातिपतने वा क्रियातिपत्तिर्भवति-न श्रद्दधे न मर्षयामि तत्रभवानदत्तमग्रहीष्यत् , पक्षे-गृह्णीयात् ग्रहीष्यति च । भविष्यति तु नित्यम्-न श्रद्दधे न मर्षयामि तत्रभवानदत्तमग्रहीष्यत् । अन्यत्रापीति किम् ? यदाऽर्थात् प्रकरणाद् वाऽश्रद्धाऽमर्षयोर्गम्य. मानत्वात् तद्वाचकेनाप्युपपदेन धातोर्न योगस्तदा मा भूत् ॥१५॥
न्या० स०-अश्रद्धामर्षेः-अन्यत्रापीति अपिशब्दसमुच्चितेन किंवृत्तेन द्वित्वात् अश्रद्धामर्षाभ्यां सहात्र सूत्रे यथासंख्यं न, 'राष्ट्रक्षत्रियात्' ३-१-११४ इति सूत्रेऽपत्याधिकारे सति राज्यपीति कर्तव्ये अपत्यग्रहणात् , अन्यथा अपिशब्दसमुच्चितेनाधिकृतेनाs. पत्येन सिद्धत्वादपत्यग्रहणं व्यर्थं स्यात् ।
____ अन्यत्रापीति किमिति-पूर्वसूत्रात् किंवृत्तानुवृत्त्यभावात् किंवृत्तेऽकिंवृत्ते च भविष्यति, किमन्यत्रापीत्यनेनेत्याशङ्का ? तदवाचकेनापीति-यथा किवृत्तेऽकिंवृत्ते च विभक्ती स्तो न तथाऽश्रद्धामर्षयोर्गम्यमानयोः किन्तु पदैः प्रयुज्यमानयोरेव. एतच्चास्मिन्नेव सूत्रे ज्ञातव्यं नोत्तरत्र यतः 'शेषे भविष्यन्त्ययदौ' ५-४-२० इत्यत्र आश्चर्य, यदि स भुजीत चित्रं यदि सोऽधीयीत, अत्राऽश्रद्धाप्यस्तीति कथयिष्यति ।
किंकिलाऽस्त्यर्थयोर्भविष्यन्ती ॥ ५. ४. १६ ॥
किकिलेति समुदायशब्देऽस्त्यर्थे च शब्दे उपपदेऽश्रद्धाऽमर्षयोर्गम्यमानयोर्धातोर्भविष्यन्ती भवति । सप्तम्यपवादः। वचनभेदादश्रद्धामर्ष इति यथासंख्यं नास्ति ।
न श्रद्दधे न मर्षयामि, किकिल नाम तत्रभवान् परदारानुपकरिष्यते, "गन्धना.' (३-३-७६) इति सूत्रेण साहसे आत्मनेपदम् । अस्त्यर्था अस्ति-भवति-विद्यतयः। न श्रद्दधे न मर्षयामि अस्ति नाम, भवति नाम, विद्यते नाम तत्रभवान् परदारानुपकरिष्यते । पत्र सप्तमीनिमित्तं नास्तीति क्रियातिपतने क्रियातिपत्तिर्न भवति ॥१६॥
न्या० स०-किकिला-सप्तम्यपवाद इति-अश्रद्धामर्षे इति प्राप्तायाः, किलशब्द प्रसिद्धिद्योतने वाक्यालंकारे अमर्षद्योतने कोमलामन्त्रणे, एवं किकिलशब्दोऽपि ।