________________
३०४ ]
बृहद्वृत्ति-लघुन्याससंवलिते [पाद-३, सूत्र-१४०-१४१
लकार: 'खलाश्च' इत्यत्र विशेषणार्थः। इह स्त्रीप्रत्ययात् प्रभृति असरूपविधेरभावात् । स्पर्धे 'अलः स्त्रीखलनाः, स्त्रियास्तु खलनौ' परत्वाद् भवतः। तत्र 'चयः, जयः, लवः' इत्यादावलोऽवकाशः, 'कृतिः, हृतिः' इत्यादी स्त्रीप्रत्ययस्य, 'चितिः, स्तुतिः' इत्यादौ तूभयं प्राप्नोति, अलोऽविशेषेणाभिधानात तत्र परत्वात स्त्रीप्रत्ययो भवति । तथा 'दुर्भेदः, सुभेदः' इत्यादौ खलोऽवकाशः, अलस्तु पूर्व एव, 'दुश्चयं सुचयम् , दुर्लवं सुलवम्' इत्यादी तुभयप्राप्तौ परत्वात् खल भवति । तथा 'इध्मवश्चनः, पलाशच्छेदनः' इत्यादावनस्यावा काशः, अलस्तु पूर्वक एव, 'पलाशशातनो विलवनः' इत्यादौ तूभयप्राप्तौ परत्वादनो भवति । एवं 'हृतिः, कृतिः' इत्यादौ स्त्रीप्रत्ययस्यावकाशः 'दुर्भेदः, सुभेदः' इत्यादौ खलः 'दुर्भदा सुभेदा' इत्यादौ तूभयप्राप्तौ परत्वात् खल भवति । तथा 'इध्मवश्चनः, पलाशच्छेदनः' इत्यादावनस्यावकाशः, कृतिरित्यादौ स्त्रीप्रत्ययस्य, 'सक्तुधानी, तिलपिडनी' इत्यादौ तूभयप्राप्तौ परत्वादनडेव भवति ।।१३९ ।।
न्या० स०-दुःस्वीषतः-परत्वादनो भवतीति-'करणाधारे' ५-३-१२० इत्यनेन । व्यर्थे कोप्याद् भू-कृगः॥ ५. ३. १४०॥
कृच्छाऽकृच्छ्रार्थेभ्यो दुःस्वीषद्भ्यः पराभ्यां च्व्यर्थे वर्तमानाभ्यां कर्तृ-कर्मवाचिभ्यां शब्दाभ्यां पराभ्यां यथासंख्यं भू-कृग्भ्यां परः खल् प्रत्ययो भवति । खानुबन्धबलात् कर्तृकर्मणोरेवानन्तर्यम्।
दुःखेनाऽनाढय नाऽऽढ्य न भूयते-दुराढ्य भवं भवता, सुखेनाऽनाढय नाऽऽढयन भयते-स्वादयं भवं भवता, ईषदाढय भवं भवता । दुःखेनाऽनाढय आढयः क्रियते दुराढ्यकरो मैत्रो भवता, सुखेनानाढ्य आढयः क्रियते-स्वाढ्य करश्चैत्रो भवता, ईषदाढयकर
चैत्रो भवता । सुखेनाऽकट: कटः क्रियन्ते सुकटंकराणि वीरणानि । सुकरः कटो वीरणरित्यत्र तु करणविवक्षा।
___ व्यर्थे इति किम् ? दुराढय न भूयते, स्वाढय न भूयते, ईषदाढय न भूयते, आढ्य एव सन् कंचिद् विशेषमापद्यत इत्यर्थः; एवं-दुराढ्यः क्रियते इत्यादि, अभूतप्रादुर्भावेऽपि वा प्रकृतेरविवक्षणात च्व्यों नास्ति ।।१४०।।
न्या० स०-चव्यर्थे कर्ता-खानुबन्धबलादिति-मागमार्थं हि खानुबन्धः ततो यद्यत्र कर्तृकर्मवाचिभ्यां परेभ्यो दुःस्वीषद्भ्यः पराभ्यामिति विपरीतो विशेषणविशेष्यभावः क्रियेत तदा कर्तृकर्मवाचिभ्यां दुरादिभिर्व्यवधानात् मोन्तो न स्यात् , दुःस्वीषद्भ्यस्तु अव्ययत्वात् मागमाप्राप्तिरिति ।
दुराढ्येन भूयते इति-आढ्येन सता दुःखेन भूयते इत्यर्थः । प्रकृतेरविवक्षणादिति-अनाध्य इत्येवंरूपायाः। शासू-युधि-दृशि-धृषि-मृषातोऽनः ॥ ५. ३. १४१ ॥
कृच्छ्राकृछ्रार्थदुःस्वीषत्पूर्वेभ्यः शासूप्रभृतिभ्य आकारान्तेभ्यश्च धातुभ्यो भावकर्मणोरर्थयोरनः प्रत्ययो भवति ।