________________
पाद - ३, सूत्र - १४१ ]
श्री सिद्ध हेमचन्द्रशब्दानुशासने पंचमोऽध्यायः
[ ३०५
दुःखेन शिष्यते - दुःशासन:, सुखेन शिष्यते - सुशासन, ईषच्छासनः । एवं दुर्योधनः, दुर्दर्शन:, दुर्धर्षण:, दुर्मर्षणः । श्रादन्त-दुरुत्थानं भवता, सूत्थानम्, ईषदुत्थानम् । दुष्पानं पयो भवता, सुपानम्, ईषत्पानम् । प्रादन्तवजितेभ्यः केचिद् विकल्पमिच्छन्ति, तन्मते'दुःशास:, दुर्योध:, दुर्दर्शः, दुर्धर्षः, दुर्मर्षः' इत्याद्यपि भवति । दुर्दशो हि राजा कार्याकार्यविपर्यासमासन्नैः कार्यते । कथम् ईषद्दरिद्रः ? विषयेऽप्याकारस्य लोपेनादन्तत्वाभावात् खलेव । खलोऽपवादो योगः ।। १४१ ।।
इत्याचार्यश्री हेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनवृत्तौ पञ्चमाध्यायस्य तृतीयः पादः ।
मात्राप्यधिकं किचिन्न सहन्ते जिगीषवः ।
इतीव त्वं धरानाथ ! धारानाथमपाकृथाः ॥ १ ॥
न्या स०
० - शास्युधि - अनुपसर्गयुध्यादि - साहचर्यान आङ: शास इति । दुर्योधन इति-दुःखेन युध्यते अन्तर्भू तण्यर्थः सूत्रे शास इति निरनुबन्धता यङ् लोपेऽपि दुःशासन इति प्रयोगार्था ।
दुर्दर्शो हि राजेति - ' ह्रक्रोर्नवा' २-२-८ इति राजन्नित्यस्य वा कर्म्मता ।
इषदरिद्र इति - ननु धातोरकर्म्मकत्वाद्भावे प्रत्यये कथमत्र पुंस्त्वं दुराढ्यं भवमित्यादिवन्नपुंसकत्वप्राप्ति: ? सत्यं - अत्र 'कालाध्व' २ २ - २३ इत्यनेन मासादेः कर्मत्वे कर्मणि खल्, न तु भावे ततो यत्र मासादौ दरिद्वैर्भयते स ईषद्दरिद्र उच्यते । विषयेऽपीतिअस्यानप्रत्ययस्य विषये इत्यर्थः ।
इत्याचार्यश्री सिद्धहेमचन्द्राभिधानस्वोपज्ञ - शब्दानुशासनबृहद्वृत्तेः पञ्चमाध्यायस्य न्यासतः तृतीयः पादः समाप्तः ।