________________
पाद-३, सूत्र-१३६-१३९ ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्यायः [ ३०३
उत्पूर्वादञ्चते: पुनाम्नि करणाऽऽधारयोर्मा निपात्यते, अतोये-तोयविषयश्चेव धात्वर्थो न भवति, जलं चेत् तेन नोदच्यत इत्यर्थः ।
तैलोदङ्कः, घृतोदकः । अतोय इति किम् ? उदकोदश्चनः। "व्यञ्जनात् घ" (५-३-१३२) इति सिद्धे तोये प्रतिषेधार्थं वचनम् । रूपाविशेषाद् घोऽपि न भवति ॥१३५॥
न्या० स०-उदोऽतोये-धोऽपि न भवतीति-ननु 'पुन्नाम्नि घ' ५-३-१३० इत्यस्यापवादो घत्र तत उदकविषये घन निवृत्ती प्रत्यनीकाभावात् घेनैव भवितव्यमित्याहरूपाऽविशेषादिति
आनायो जालम् ॥ ५. ३. १३६ ॥
आङ् पूर्वान्नयतेः करणे पुनाम्नि घञ् निपात्यते, जालं चेत् वाच्यं भवति । आनयन्ति तेन-आनायो मत्स्यानाम्, आनायो मृगाणाम् ॥१३६॥
खनो ड-डरेकेकवक-घं च ॥ ५. ३. १३७॥
खने: नाम्नि करणाऽऽधारयोर्ड डर इक इकवक घ घञ्च प्रत्यया भवन्ति । प्राखायत आखन्यते वाऽनेनास्मिन् वा-आखः, पाखरः, आखनिकः, आखनिकवकः, पाखनः, आखानः ।।१३७॥
न्या० स०-स्वनो डडरे-अनुकार्यानुकरणयोः कथंचिद् भेदाद् धातुत्वाऽभावे इकिशितवां खन इत्यत्राऽभावः ।
इ कि श्तिव स्वरूपाऽर्थे । ५. ३. १३८ ॥
धातोः स्वरूपेऽर्थे चाभिधेये 'इ कि श्तिव' इत्येते प्रत्यया भवन्ति । भञ्जिः , ऋधिः , वेत्तिः । अर्थे-यजेरङ्गानि, भुजि: क्रियते, पचतिर्वर्तते ॥१३८॥
न्या० स० इकिश्तिव्-केचिदेतान् प्रत्ययान् कर्तरि समानयन्ति स्वमते तु कर्तृ कर्मभाव इति विशेषाभावात् सामान्येन भवन्ति । 'भवतेः सिज्लुपि' ४-३-१२ 'न कवतेर्यङ:' ४-१-४७ इत्यादौ भावेऽपि सूत्रसामर्थ्यात् शव् न तु क्यः । पचतिवर्त्तते इति-बाहुलकाद् भावेऽपि शव क्याऽभावश्च ।
दुःस्वीषतः कृच्छाऽकृच्छार्थात् खल् ॥ ५. ३. १३१ ॥
कृच्छ्र दुःखम् , प्रकृच्छ सुखम् , कृच्छ्रार्थवृत्तेर्तुरः सामर्थ्यादकृच्छ्रार्थवृत्तिभ्यां स्वीषद्भ्यां पराद् धातोर्भाव-कर्मणोरर्थयोः खल् प्रत्ययो भवति । कृत्यादीनामपवादः ।
दुःखेन शय्यत इति-दुःशयम , सुखेन शय्यते इति-सुशयम् , ईषच्छयं भवता । 'दुःखेन क्रियते इति-दुष्करः । सुखेन क्रियते इति-सुकरः, ईषत्करः कटो भवता। दुष्कर
सुकरम् ईषत्करं भवता । दुःस्वीषत इति किम् ? कृच्छ्रसाध्यः, सुखसाध्यः। कृच्छाकृच्छार्थादिति किम् ? ईषल्लभ्यं धनं कृपणाव , अल्पं लभ्यमित्यर्थः । खकार उत्तरत्र मागमार्थः ।