________________
३०२ ]
बृहद्वृत्ति - लघुन्याससंवलिते [ पाद- ३, सूत्र - १३२-१३५
भज्यतेऽनेनास्मिन्निति वा भगः, मगमिति बाहुलकात् क्लोबेऽपि घः । कषत्यस्मिन्निति-: कषः, एवमाकषः, निकषः ॥ १३१ ॥
व्यञ्जनाद् घञ् ॥ ५. ३, १३२ ॥
व्यञ्जनान्ताद् धातोः पु'नाम्नि करणाssधारे घञ् प्रत्ययो भवति, घस्यापवादः । विदन्त्यनेन विन्दति विन्दते वा वेदः । चेष्टतेऽनेन चेष्टो बलम् । एत्य पचन्त्यस्मिन्नित्यापाक: । श्रारामः, लेखः, बन्धः, नेगः, वेगः, रागः, रङ्गः, क्रमः, प्रसादः, अपामार्गः, नीमार्गः ॥ १३२ ॥
न्या० स०-व्यञ्जनाद् घञ्- घस्यापवाद इति - 'पुन्नाम्नि' ५ -३ - १३० इति प्राप्तस्य ।
अवात् तृ-स्तुभ्याम् || ५. ३. १३३ ॥
पूर्वाभ्यां तृ-स्तृभ्यां करणाssधारयोः पुनाम्नि घञ् भवति ।
श्रवतरन्त्यनेनास्मिन् वेति- अवतार: । अवस्तृणन्त्यनेनास्मिन्निति वा अवस्तारः । बहुलाधिकारादसंज्ञायामपि श्रवतारो नद्याः, उत्पूर्वादपि नद्युक्त्तारः । करणाऽऽधार इत्येव ? अवतरः । केचित् तु-संज्ञायामसंज्ञायां च भावेऽकर्तरि कारके च स्त्रो नित्यं तरतेस्तु विकल्पेन घञमिच्छन्ति । द्विवचनं करणाssधार इति यथासंख्यनिवृत्यर्थम् ।। १३३ ।।
न्या० स०- अवात्तृस्तृभ्याम् अवतारो नद्या इति येन केनाऽपि पथाऽवतीर्यते स वावतारो न तु कस्यापि संज्ञा ।
न्यायाssवायाऽध्यायोद्याव-संहारांऽवहाराऽऽधार-दार -जारम्
॥ ५. ३. १३४ ॥
स्वरान्तार्थ आरम्भ, एते शब्दाः पुं नाम्नि करणाधारयोर्घे प्राप्ते घञन्ता निपात्यन्ते । निपूर्वस्येण नीयतेऽनेनेति - न्यायः । एत्य वयन्ति वायन्ति वा तत्रेत्यावायः । अधीयतेऽनेनास्मिन् वा श्रध्यायः । उद्युवन्ति तेन तस्मिन् वा उद्यावः । संहरन्ति तेनसंहारः । अवहरन्ति तेन तस्मिन् वा अवहारः । आम्रियते तत्रेत्याधारः । दीर्यन्ते एभिरिति - दाराः । जीर्यतेऽनेनेति - जारः । दारयन्तीति दाराः । जरयतीति जार इति कर्तरि केचिन्निपातयन्ति ॥ १३४ ॥
न्या० स० - न्यायावाया- केचिन्निपातयन्तीति ननु जार इत्यस्य 'कगेवनूजनैजषु' ४-२-२५ इति ह्रस्वत्वे दीर्घार्थं निपातः क्रियतां दार इत्यस्य तु किं निपातनेन ? सत्यं, भयविवक्षायां दृघातोर्घटादित्वात् दरयतीति यदा क्रियते तदापि दीर्घो भूयादित्येवमर्थं निपातः ।
उदङ्कोऽतोये ।। ५. ३. १३५ ॥