________________
पाद - ३, सूत्र - १२९-१३१ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्यायः [ ३०१
आभरणम् । अपादाने, पत् - प्रपतत्यस्मादिति प्रपतन: । स्कन्दि - प्रस्कन्दनः । श्च्योतिप्रश्च्योतनः । झुष्- निर्झरणाः । धृ-शङ्खोद्धरणः । दाग्- अपादानम् । बहुवचनं प्रयोगानुसरणार्थम् ।। १२८ ।।
न्या० स०- भूजिपत्यादिभ्यः अवस्रावणमिति - अवस्रवत् अधः पतत् प्रयुङ्क्ते णिगि अवस्राव्यते । वसनमिति वसिक् वस्यते तदिति ।
करणाऽऽधारे । ५. ३. १२१ ॥
करणाssधारयोरर्थयोर्धातोरनट् भवति, घञाद्यपवादः ।
करणे - एषरणी, लेखनी, विचयनी, इध्मव्रश्चनः, पलाशशातनः, अविलवनः, श्मश्रुकर्तनः । आधारेगोदोहनी, सक्तुधानी, तिलपीडनी, शयनम्, आसनम्, अधिकरणम्,
आस्थानम् ।। १२९ ।।
पुनाम्नि घः ॥ ५३. १३० ॥
पुसो नाम-संज्ञा पुन्नाम, तत्र गम्यमाने करणाऽऽधारयोर्धातोर्घः प्रत्ययो भवति ।
करणे- प्रच्छदः, उरश्छदः, दन्तच्छ्दः, प्लवः, प्रणवः, करः, प्रत्यय:, शर: । आधारेएत्य कुर्वन्त्यस्मिन्नित्याकरः, आलव:, आरवः, श्रापवः, भवः, लय:, विषय, भर, प्रहरः, प्रसरः, अवसरः, परिसरः, विसरः प्रतिसरः । पुंग्रहणं किम् ? विचीयतेऽनयेति-विचयनी, प्रधोयते विकारोऽस्मिन्निति प्रधानम् । नाम्नीति किम् ? प्रहरणो दण्डः । बहुलाधिकारात् क्वचिन्न भवति प्रसाधनः दोहनः । घकार "एकोपसर्गस्य च घे" ( ४ - २ - ३४ ) इत्यत्र विशेषणार्थः ।। १३० ॥
न्या० स० - पुन्नाम्नि घः- प्रणव इति स्मरस्तु स्मरन्ति कामिनीमनेनेति वाक्ये अनेन घः इति पारायणम् । प्रधानमिति सत्वरजस्तमसां साम्यावस्था प्रकृतिः प्रधानम् । प्रसाधन इत्यत्र - णिगन्तादऽनट् एवं दोहन इत्यत्र ।
गोचर-संचर-वह-ब्रज व्यज-खला - SSपण निगम-बक भग-कषाऽऽकप-निकषम् ।। ५. ३. १३१ ॥
एते शब्दा: करणाssधारयोः पु'नाम्नि व्यञ्जनाद् घञि प्राप्ते घप्रत्ययान्ता निपात्यन्ते ।
गावश्चरन्ति श्रस्मिन्निति-गोचरो देश, व्युत्पत्तिमात्रं चेदम्, विषयस्य तु संज्ञा"अनेकान्तात्मकं वस्तु गोचरः सर्वसंविदाम्" । संचरन्तेऽनेन संचरः । वहन्ति तेन-वहः, वृषस्कन्धदेशः । व्रजन्त्यस्मिन्निति व्रजः । विपूर्वोऽजि:, व्यजत्यनेन व्यजः, निपातनाद्वीभावाभावः । खलन्त्यस्मिन्निति - खलः । एत्य पणायन्ति अस्मिन्निति- आपणः । निगच्छन्ति तत्रेतिनिगमः । वक्तीति- बकः, बाहुलकात् कर्तरि । निपचन्त्यनेन निपक- इत्यपि कश्चित् ।