________________
२६८ ]
बृहद्वृत्ति-लघुन्याससंवलिते [ पाद ३, सूत्र - ११७-१२०
नञोऽनिः शापे । ५. ३. ११७ ॥
नञः पराद् धातोः शापे गम्यमाने भावाऽकर्त्रीः स्त्रियामनिः प्रत्ययो भवति । निस्ते वृषल ! भूयात् एवमजीवनि: प्रकरणिः, अप्रयाणिः, अगमनिः । इति किम् ? मृतिस्ते जाल्म ! भूयात् । शापे इति किम् ? अकृतिस्तस्य पटस्य ॥ ११७३
"
ग्ला- हा ज्यः ।। ५. ३. ११८ ॥
एम्य: स्त्रियां भावाsकर्त्रीरनिः प्रत्ययो भवति । ग्लानिः हानि:, ज्यानिः । म्लानिरित्यापि कश्चित् ॥ ११८ ॥
प्रश्ना-ऽऽख्याने वेञ् ।। ५. ३. १११ ॥
प्रश्ने आख्याने च गम्यमाने स्त्रियां भावाऽकत्रधातोरिन् प्रत्ययो वा भवति, वावचनाद् यथाप्राप्तं च ।
hi त्वं कारिमकार्षो ?, कां कारिकां, कां क्रियां, कां कृत्यां, कां कृतिम् । आख्याने सर्वां कारिमकार्षम्, सर्वां कारिकां, सर्वां क्रियां, सर्वां कृत्यां सर्वां कृतिम् । कां त्वं गणिमजीगण ?, कांगणिकां, कां गणनाम्; सर्वां गणिमजीगणम्, सर्वां गणिकाम, सर्वां गणनाम् । एवं - पाच पाचिकां पक्ति पचाम्, पाठिं पाठिकां पठितिम् । प्रश्ना-ssख्यान इति किम् ? कृतिः, हृतिः ॥ ११६ ॥
न्या० स० प्रश्नाख्या- कां कारिकामिति 'पर्यायार्हण' ५ -३ - १२० इति णकः । कां कृतमिति-म्यादित्वात् क्विपि कां कृतमित्यपि ।
पर्यायाऽर्हर्णोत्पत्तौ च णकः ॥ ५. ३. १२० ॥
sary प्रश्नाख्यानयोश्च गम्यमानयोः स्त्रियां भावाऽकत्रर्घातोर्णकः प्रत्ययो भवति, क्त्याद्यपवादः ।
पर्याय :- क्रमः परिपाटिरिति यावत् । भवत श्रासिका, भवत: शायिका, भवतोऽग्रगामिका; आसितुं शयितुमग्रे गन्तु ं च भवतः क्रम इत्यर्थः । अर्हरणमर्हः - योग्यता । अर्हति भवान् इक्षुभक्षिकाम्, ओदनभोजिकाम्, पयःपायिकाम् । ऋणं यत् परस्मै धार्यते । tri धारयसि । उत्पत्तिर्जन्म, इक्षुभक्षिका मे उदपादि । प्रश्ने-कां त्वं कारिकामकार्षीः ? कां त्वं गणिकामजीगणः ? आख्याने सर्वां कारिकामकार्षम्, सर्वां गणिकामजोगणम् । बहुलाधिकारात् क्वचिन्न भवति चिकीर्षा, बुभुक्षा मे उदपादि । प्रश्नाऽऽख्यानयोगेऽपि पर्यायादिषु परत्वात् णक एव भवति, नेञ् ।। १२० ।।
न्या० स०- पर्यायार्णो - इक्षुभक्षिकामिति - अत्र 'कृति' ३-१-७७ इति समासः । णक एव भवतीति यथा कुत्र भवत आसिकेति आसितु पर्याय: ।