________________
पाद-३, सूत्र-१२१-१२४ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्यायः
[२९९
नाम्नि पुंसि च ॥ ५. ३. १२१ ॥ धातोः स्त्रियां भावाऽकर्जर्नाम्नि-संज्ञायां णकः प्रत्ययो भवति, यथादर्शनं पुंसि च ।
प्रच्छर्दनं प्रच्छद्यतेऽनयेति वा-प्रच्छदिका, एवं-प्रवाहिका, विचिका. प्रष्कन्दिका, विपादिका, एता रोगसंज्ञाः । उद्दालकपुष्पाणि भज्यन्ते यस्यां सा-उद्दालकपुष्पभजिका, एवं-वारणपुष्पप्रचायिका, अभ्योषाः खाद्यन्तेऽस्यामिति-अभ्योषखादिका, एवमवोषखादिका; साला भज्यन्ते यस्यां सा-सालभजिका, एवंनामानः क्रीडाः।
__बहुलाधिकारादिह न भवति-शिरसोऽर्दनं-शिरोतिः, एवं-शीर्षात्तिः, शिरोऽभितप्तिः, शीर्षाभितप्तिः, तथा चन्दनतक्षा क्रीडा । बहुलाधिकारादेव चातिरित्यत्रार्दतेरर्दयतेश्च यथाक्रममप्रत्ययमनप्रत्ययं च बाधित्वा क्तिरेव भवति । सि च-अरोचनं न रोचतेऽस्मिन्निति वा-अरोचकः, अनाशकः, उत्कन्दकः, उत्कर्णकः ।।१२१।।
न्या स०-नाम्नि पुसि च-उद्दालकपुष्पभजिकेति-अत्र 'कृति' ३-१-७७ इति षष्ठीसमासः, उद्दालकपुष्पाणि भज्यन्ते यस्यामिति त्वर्थकथनम् । वाक्यं तु भज्यन्ते यस्यां भञ्जिका उद्दालकपुष्पाणां भञ्जिकेति कार्य, न तु 'अकेन क्रीडा' ३-१-८१ इति समासस्तेन कर्तृ विहिताऽकान्तेन सह विधानात् , णकस्त्वनेन कर्तृवर्ज प्रवर्तते । चन्दनतक्षेतिचन्दनास्तक्ष्यन्ते यस्यां बाहुलकात् 'पुंनाम्नि' ५-३-१३० (इति) विहितोऽपि स्त्रियामपि 'व्यञ्जनाद् घन'५-३-१३२ । ननु यथा शिरोत्तिरित्यत्र बाहुलकाण्णको निषिद्धस्तथा क्तिरपि न प्राप्नोति स्त्रीखलना इति न्यायादित्याह-बहुलाधिकारादिति-अईयतेश्चेतिऋथ अद्दिणित्यस्य । उत्कन्दक इति-उत्स्कन्दनं उत्स्कद्यतेऽनेनेति वा पृषोदरादित्वात् सलोप।
भावे ॥ ५. ३. १२२ ॥
भावे-धात्वर्थनिर्देशे स्त्रियां धातोर्णकः प्रत्ययो भवति । आसिका, शायिका, जीविका, कारिका । बहुलाधिकारात्-ईक्षा, ऊहा, ईहा, स्मरणा ॥१२२॥
क्लीबे क्तः॥५. ३. १२३ ॥
क्लीबे-नपुंसकलिङ्गे भावेऽर्थे धातोः क्तः प्रत्ययो भवति, घनाद्यपवादः । स्त्रियां भावाऽकर्बोरिति च निवृत्तम् ।
हसितं छात्रस्य, नृत्तं मयूरस्य, व्याहृतं कोकीलस्य, गतं मतंगजस्य । क्लीब इति किम् ? हसः, हासः ।।१२३॥
न्या० स०-क्लीबे क्तः-घनाद्यपवाद इति-आदिशब्दात् 'ट्वितोऽथुः' ५-३-८३ इत्यादयः।
अनट् ।। ५. ३. १२४ ॥
क्लीबे भावेऽर्थे धातोरनट् प्रत्ययो भवति । गमनं भोजनं वचनं हसनं छात्रस्य । टकार उत्तरत्र ङ्यर्थः ॥१२४।।