________________
२९० ]
बृहद्वृत्ति-लघुन्यास संवलिते [ पाद- ३, सूत्र - ८० - ८२
किम् ? चयः । चः क इत्येव सिद्धे आदिग्रहणमादेरेव यथा स्यात् तेन चेर्यङ्लुपि-नि केचाय इत्येव भवति ॥७६॥
संघेऽनूर्श्वे ॥ ५, ३. ८० ॥
न विद्यते कुतश्चिदूर्ध्वमुपरि किंचिद् यस्मिन् सोऽनूर्ध्वः, तस्मिन् संघ- प्राणिसमुदाasarda चिनोतेर्भावाऽकत्रर्घञ् तत्संनियोगे चादेः को भवति ।
1
वैयाकरणनिकायः, तार्किक निकायः । संघ इति किम् ? सारसमुच्चयः, प्रमाणसमुच्चयः । अनूर्ध्व इति किम् ? सूकरनिचयः, सूकरा ह्य् पर्यपरि चीयन्ते ||८०|| न्या० स०० - संघेऽनू - सूकरनिचय इति पूर्वेणापि न भवति व्यावृत्तिबलात् ।
माने ॥ ५. ३. ८१ ॥
माने गम्यमाने धातोर्भावाऽकर्त्रीघ्ञ् भवति । मानमियत्ता सा च द्वेधा - संख्या परिमाणं च । एको निघासः द्वौ निघासौ; एकस्तण्डुलावक्षाय: ; एकस्तण्डुल निश्चाय:, एक: कार:, द्वौ कारौ त्रयः काराः; द्वौ सूर्पनिष्पावो; समित् संग्राहः, तण्डुलसंग्राहः, मुष्टिरित्यर्थः । मान इति किम् ? निश्चयः । श्रल एवायमपवाद:, क्त्यादिभिस्तु बाध्यते - एका तिलोच्छितिः, द्वे प्रसृती ॥ ८१ ॥
न्या० स०-माने द्वौ सूर्प निष्पावाविति पवने पावो निश्चितौ पावाविति कार्यं, निष्पवने इति तु कृते 'निरभेः पूल्वः' ५ -३ - २१ इत्यनेनापि सिद्धम् । अल एवायमपवाद इति- मध्ये अपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान् इति न्यायात् ।
स्थादिभ्यः कः ।। ५. ३.८२ ॥
स्थादिभ्यो धातुभ्यो मावाऽकः कः प्रत्ययो भवति ।
आखूनामुत्थानम् - प्राखत्थो वर्तते, शलभोत्थो वर्तते, प्रतिष्ठन्त्यस्मिन्निति-प्रस्थः सानुः, संतिष्ठन्तेऽस्यामिति-संस्था, व्यवतिष्ठन्तेऽनयेति-व्यवस्था, प्रस्नात्यस्मिन्निति - प्रस्नः, प्रपिबन्त्यस्यामिति - प्रपा, विध्यतेऽनेनेतिविधः, आविध्यतेऽनेनेत्याविधः, विहन्यतेऽनेनास्मिन् वा - विघ्नः आयुध्यन्तेऽनेनेत्यायुधम् । आध्यायन्ति तमित्याढ्यः पृषोदरादित्वात् धस्य ढः । सर्वापवादत्वादनटमपि कप्रत्ययो बाधते । कथमाव्याधः, घातः, विघातः, उपघातः ? बहुलाधिकारात् । बहुवचनं प्रयोगानुसरणार्थम् ॥८२॥
न्या० स० - स्थादिभ्यः कः - प्रस्थ इति - प्रपूर्वस्तिष्ठतिर्गत्यर्थ इति क्षीरः, यदि प्रतिष्ठते मानार्थमिति क्रियते तदा ' उपसर्गादातो डोऽश्यः ५-१-५६ इति र्डे प्रस्थो मानमिति भवति ।
संस्थेति - ' उपसर्गादातः ' ५ -३ - ११० इत्यङ बाधित्वा स्त्रियाः खलनावित्यनट् स्यादित्यत्र पाठः । विघ्न इति स्थादिगणपाठबलात् करणेऽपि कः प्रत्ययो न तु 'व्ययोद्रोः करणे' ५-३-३८ इत्यनेनाल् । घात इति विधात इतिवत् ।