________________
पाद - ३, सूत्र - ७६-७९]
श्री सिद्ध हेमचन्द्र शब्दानुशासने पंचमोऽध्यायः [ २८९
स्थितेरचलनमषः, निपूर्वादिणोऽभ्रषविषयेऽर्थे वर्तमानाद् भावाऽकर्शोर्घञ् प्रत्ययो भवति । शास्त्रलोकप्रसिद्ध्यादिना नियतमयनं - न्यायः । अभ्रष इति किम् ? न्ययं गतश्चौरः ।। ७५ ।।
परेः क्रमे ॥ ५. ३. ७६ ॥
क्रमः परिपाटी, परिपूर्वादिणः क्रमविषयेऽर्थे वर्तमानाद् भावाऽकत्रेर्घञ् भवति ।
तव पर्यायो भोक्तुम्, मम पर्यायो भोक्तुम्, क्रमेण पदार्थानां क्रियासंबन्धः पर्यायः । क्रम इति किम् ? पर्ययः स्वाध्यायस्य प्रतिक्रम इत्यर्थः, विपर्ययो मतेः, अन्यथाभवनमित्यर्थः ।। ६७ ।।
व्युपाच्छीङः ।। ५. ३. ७७ ॥
व्युपाभ्यां पराच्छीङो भावाऽकर्त्रीर्घञ् भवति, क्रमे - क्रम विषयश्चेद् धात्वर्थो भवति । तव राजविशायः मम राजोपशायः । क्रमप्राप्तं पर्यायसाध्यं शयनमुच्यते । अन्ये तु शयितुं पर्याय उच्यते इत्याहुः । क्रम इति किम् ? विशय:, उपशयः ॥ ७७ ॥
न्या० स० - व्युपाच्छीङ :- स्वमते शयनस्य प्राधान्यं तन्मते तु पर्यायस्येति तात्पर्यार्थः ।
हस्तप्राप्ये रस्तेये ॥ ५. ३.७८ ॥
हस्तेनोपायान्तरनिरपेक्षेण प्राप्तुं शक्यं हस्तप्राप्यम्, तद्विषयाच्चिनोतेर्भावाकघञ् भवति, अस्तेये न चेद् धात्वर्थः स्तेये चौर्ये भवति । हस्तप्राप्यशब्देन प्रत्यासत्तिः प्राप्यस्य लक्ष्यते, तेन प्रत्यासत्तिविषये धात्वर्थे विधानम् ।
पुष्पप्रचायः फलावचायः फलोच्चाय:, फलोच्चायश्च संहतैः । उदो नेच्छन्त्यन्येफलोच्चयः । हस्तप्राप्य इति किम् ? पुष्पप्रचयं करोति तरुशिखरे । अस्तेय इति किम् ? स्तेयेन पुष्पप्रचयं करोति । हस्तप्राप्यशब्देन प्रमाणमप्युच्यते यद्धस्ते संभवति न हस्तादतिरिच्यते इति, ततश्च " माने" ( ५-३ - ८१ ) इत्यनेनैव सिद्धे नियमार्थं वचनम् - अस्तेय एवेति तेन पुष्पाणां हस्तेन प्रचयं करोति चौर इत्यत्र " माने" ( ५-३ - ८१ ) इत्यनेनापि घञ् न भवति ॥ ७८ ॥
न्या० स०- - हस्तप्राप्ये- यद्धस्ते संभवतीति हस्ते सम्मातीत्यर्थः ।
चिति-देहाऽऽवासोपसमाधाने कश्वादेः ॥ ५. ३. ७१ ॥
चीयत इति चितिर्यज्ञेऽग्निविशेषः, तदाधारी वा देहः शरीरम्, आवासो निवासः, उपसमाधानमुपर्युपरि राशीकरणम्, एष्वर्थेषु चिनोतेर्भावाऽकत्रेर्घञ् तत्संनियोगे चादेः ककारादेशो भवति ।
कायमग्न चिन्वीत । देहे कायः शरीरम् । आवासे ऋषिनिकायः । उपसमाधाने - गोमयनिकायः, गोमयपरिकायः । कथं काष्ठनिचय. ? बहुत्वमात्रविवक्षया । एष्विति