________________
पाद-३, सूत्र-८३-८९ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्यायः
[२९१
घात उपघात इति-अत्रापि करणाधिकरणत्वं द्रष्टव्यम् । द्वितोऽथुः ।। ५. ३, ८३ ॥
वितो धातो वाऽकोरथुः प्रत्ययो भवति । वेपथुः, वमथुः, श्वयथः, स्फूर्जथः, भ्रासथः, नन्दथुः, क्षवथुः, दवथुः । असरूपत्वाद् घालावपि-वेपः, क्षवः ॥८३।।
डितस्त्रिमक तत्कृतम् ॥ ५, ३.८४॥
डिवतो धातो वाऽकोंस्त्रिमा प्रत्ययो भवति, तेन-धात्वर्थेन, कृत-निवृत्तमित्येतस्मिन्नर्थे ।
___ पाकेन निवृत्त-पवित्रमम् , उप्त्रिमम्, कृत्रिमम्, लब्ध्रिमम्, विहित्रिमम् , याचित्रिमम् , ट्विदसाविति कश्चित्-याचथुः । ककारः कित्कार्यार्थः ।।८४॥
न्या० स०- डिवतस्त्रिमक-निर्वृत्तमित्येतस्मिन्नर्थे इति-अन्तर्भूतण्यर्थत्वात् निर्वत्तितमित्यर्थः, कृतमित्येव वार्थः, तदा तु कर्मकर्तरि क्तः ।
जि-स्वपि-रक्षि-यति-प्रच्छो नः॥ ५. ३. ८५ ॥ एभ्यो भावाऽकर्बोनः प्रत्ययो भवति । यज्ञः, स्वप्नः, रक्ष्णः यत्नः, प्रश्नः ॥८५।। विच्छो नङ्॥ ५. ३. ८६॥ विच्छेर्भावाकोंर्नङ् प्रत्ययो भवति । विश्नः । डकारो गुणप्रतिषेधार्थः ॥८६॥ उपसर्गाद दः किः ॥ ५. ३. ८७॥ उपसर्गपूर्वाद् दासंज्ञकाद् धातो वाऽकों: किः प्रत्ययो भवति ।
पादिः, प्रदिः प्रधिः, प्राधिः, निधिः, उपविधिः, संधिः, समाधिः। कित्करणमाकारलोपार्थम् ।।८७॥
व्याप्यादाधारे ॥ ५. ३. ८८॥
व्याप्यात् कर्मणः पराद् दासंज्ञादाधारे-प्रधिकरणे कारके किर्भवति । जलं धीयतेऽस्मिन्निति-जलधिः, शरधिः, इषुधिः, वालधिः, शेवधिः । प्राधारग्रहणमर्थान्तरनिषेधार्थम् ।।८८॥
न्या० स०-व्याप्यादाधारे-शेवधिरिति-शेते निधाविति 'शीङापो ह्रस्वश्च वा' ५०६ (उणादि) इति वे शेवं स्थाप्यधनं तद्धीयतेऽस्मिन् ।
अन्तर्धिः ॥ ५. ३.८१ ॥ अन्त:पूर्वाद् दधातेर्भावाऽकों: किः प्रत्ययो निपात्यते । अन्तधिः ।।४।।