________________
२८४ ]
बृहवृत्ति-लघुन्याससंवलिते
[पाद-३, सूत्र-४२-४६
करण इति निवृत्तम् , छूते नाम्नि चाभिधेये यथासंख्यं समापूर्वादापर्वाच्च ह्वयतेरल ह्वयादेशश्च निपात्यते ।
समाह्वयः प्राणिद्यूतम् , आह्वयो नाम ॥४१॥ न्यभ्युप-वेर्वाश्चोत् ।। ५. ३. ४२ ॥
नि-अभि-उप विभ्यः पराव ह्वयते वाऽकोरल् तत्संनियोगे च वाशब्द उकारो भवति, अभेदनिर्देशः सर्वादेशार्थः । .
निहवः, अभिहवः, उपहवः विहवः । न्यभ्युपवेरिति किम् ? प्रह्वायः । ह्व इत्येव ? निवायः। हो हव इत्यनिपातनं किम् ? यङ्लुपि निपातनं मा भूत . तेन विजोहव इति सिद्धम् , अन्यथा विहव इति स्यात् । जुहोतिनैव सिद्ध ह्वयते रूपान्तरनिवृत्तत्त्यर्थ वचनम् ॥४२॥
न्या० स०-न्यभ्युपवे-विजोहव इति-भृशं विह्वयति, यङलुप् 'द्वित्वे ह्वः' ४-१-८७ इति वृत्-विजोहवनं, अनेनाल् । अन्यथा विहव इति-प्रकृतिग्रहणे इति न्यायात् यङ लुबन्तस्याप्यनेनाऽलि ह्वो हव इति कृतद्वित्वस्यापि निपाते विहव इति स्यादित्यर्थः ।
आङो युद्धे ॥ ५. ३. ४३ ॥ आङ्पूर्वाद ह्वयतेयुद्धेऽर्थे भावाऽकोरल भवति, वाशब्दश्वोकारः । आहूयन्ते योद्धारोऽस्मिन्निति-आहवो युद्धम् । युद्ध इति किम् ? अाह्वायः, प्राह्वा
नम् ॥४३॥
आहावो निपानम् ॥ ५, ३. ४४ ॥
निपिबन्त्यस्मिन्-निपानम् , पशु-शकुनीनां पानार्थ कृतो जलधारः । आङपूर्वात ह्वयतेर्भावाकोरल् , पाहावादेशश्च निपात्यते, निपानं चेदभिधेयं भवति ।
___ आहूयन्ते पशवः पामायास्मिन्नित्याहावः पशूनाम् , प्राहावः शकुनीनाम् , निपानमित्यर्थः । निपानमिति किम् ? आह्वायः, अाह्वानम् ॥४४॥
भावेऽनुपसर्गात् ॥ ५. ३.४५ ॥
अविद्यमानोपसर्गात् ह्वयते वेऽल वाशब्दश्चोकारो भवति । प्रकर्तरोत्यस्यानुप्रवेशो मा भूदिति भावग्रहणम् ।
ह्वानं हवः । भाव इति किम् ? कर्मणि ह्वायः । अनुपसर्गादिति किम् ? आह्वायः॥४५॥
हनो वा वधु च ॥ ५. ३. ४६ ॥
अनुपसर्गाद्धन्तेर्भावेऽल् वा भवति, तत्संनियोगे चास्य वधावेशः। हननं वधः, घातः । अनुपसर्गादित्येव-संघातः ॥४६।।