________________
पाद-३, सूत्र-३७–४१ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्यायः ।
निघादिशब्दानां निमिताद्यर्थविशेषे कथं वृत्तिः कथमाघारादी असरूपविधिनाऽनडादयश्च न भवन्ति ? इत्याह-निपातनादेवेति - अन्यथा निमितात्याघानादिषु विशेषार्थप्रतीतिस्तुल्यारोहपरिणाहादिका न स्यात् ।
मूर्त्ति - निचिताऽभ्रे घनः ॥ ५. ३. ३७॥
हन्तेर्मु यदिष्वर्थेषु अल् प्रत्ययो घनादेशश्च निपात्यते ।
[ २८३
मूर्तिः काठिन्यम्, अभ्रस्य घनः काठिन्यमित्यर्थः ; एवं दधिधनः, लोहघनः । निचितं निरन्तरं तत्र, घनाः केशाः, घना व्रीहयः । श्रभ्रं मेघस्तत्र घनः । कथं घनं दधि ? गुणशब्दोऽयं तद्योगाद् गुणिन्यपि वर्तते ॥३७॥
व्ययो -द्रोः करणे ।। ५. ३. ३८ ॥
'वि अयस् दु' इत्येतेभ्यः पराद्धन्तेः करणेऽल् प्रत्ययो घनादेशश्च निपात्यते । भावस्य कारकान्तरस्य चानुप्रवेशो मा भूदिति करणग्रहणम् ।
विहन्यतेऽनेन तिमिरं विघनः, विघनेन्दुसमद्युतिः, वयः पक्षिणो हन्यन्तेऽनेनेति वा- विधन:, अयोधन:, दुर्हन्यतेऽनेनेति द्रुघनः कुठारः । कथं द्रुघण: ? अरोहणादिपाटाण्णत्वे भविष्यति, घणतेर्वाऽजन्तस्य रूपम्, स्त्रियां त्वडेव परत्वात् विहननी, अयोहननी, द्रुहननी ||३८||
न्या० स०-व्ययोद्रो :- ब्रुधन इति - ' हनोघि ' २-३ - ९४ इति व्याप्त्या प्रवृत्तेः पूर्वपदस्था' २-३-६४ इति न णत्वम् ।
घणतेर्वेति-घणिः सौत्रः, द्रूणि दारूणि घणति लिहाद्यच् ।
स्तम्बाद् ध्नश्च ॥ ५. ३. ३१ ॥
स्तम्बशब्दात् पराद्धन्तेरल् हन - घनादेशौ च निपात्येते करणे ।
स्तम्बो हन्यतेऽनेन स्तम्बघ्नो दण्डः स्तम्बघ्नो यष्टिः, स्त्रियां परत्वादनडेव-स्तबहननी यष्टिः । केचित् तु कप्रत्यये निपातनं कृत्वा स्त्रियामपि स्तम्बघ्नेतीच्छन्ति । अन्ये तु स्तम्बपूर्वस्यापि हन्तेः "सातिहेति०" (५-३-९४) इति निपातनात् स्तम्बहेतिरितीच्छन्ति । करण इत्येव स्तम्बहननं स्तम्बघातः । कथं स्तबघ्नीषोका ? कररणस्यापि कर्तृत्वविवक्षया "अचित्ते टक्' ( ५-३-६४ ) इत्यनेन टकि सिद्धम् ||३६||
परेर्घः ॥ ५. ३. ४० ॥
परिपूर्वाद्धन्तेरल् घादेशश्च करणे निपात्यते । परिहन्यतेऽनेनेति पारिघोऽर्गला, लवे पलिघः ॥ ४० ॥
ह्वः समाह्वयाऽऽहृयौ द्यूत-नाम्नोः ॥ ५. ३. ४१ ॥