________________
२८२ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पाद-३, सूत्र-३४-३६
'संमद प्रमद' इत्येतौ भावाऽकर्बोहर्षेऽर्थेलन्तौ निपात्येते ।
सम्मदः कोकिलानाम् , प्रमदः कन्यानाम् । हर्ष इति किम् ? संमादः, प्रमादः । "संप्रान्मदे" इत्यनुक्त्वा निपातनं रूपनिग्रहार्थम् , तेनोपसर्गान्तरयोगे न भवति-प्रसंमादः, संप्रमादः, अभिसंमादः ॥३३॥
न्या० स०-सम्मद-प्रसंमाद इति-प्रकृष्टः संमद इति कृते प्रसम्मद इत्यपि । हनोऽन्तर्घनाऽन्तर्घणौ देशे ॥ ५. ३. ३४ ॥ अन्तःपूर्वाद्धन्तेरल् प्रत्ययो घन-घणौ चादेशौ निपात्येते , देशेऽभिधेये भावाऽकोंः ।
अन्तहण्यतेऽस्मिन्निति-अन्तर्घनः, अन्तर्घणो वा वाहीकेषु देशविशेषः; अन्तर्घातोऽन्यः । एके त्वन्तः संहतो देशोऽन्तर्घनः । अभ्यन्तरो देश इति केचित्-'तस्मिन्नन्तर्घणेऽपश्यत्' घणिः प्रकृत्यन्तरमित्यन्ये ॥३४।।
प्रघण-प्रघाणो गृहांशे ॥ ५. ३. ३५ ।।
प्रपूर्वाद्धन्तेर्ग्रहांशेऽभिधेयेऽल् प्रत्ययो घणघाणौ चादेशौ निपात्येते । प्रघणः प्रघाणो वा द्वारालिन्दकः; प्रघातोऽन्यः ॥३५॥ निघोघ-संघोद्घनाऽपघनोपघ्नं निमित-प्रशस्त-गणाऽत्याधाना
ऽङ्गा-ऽऽसन्नम् ॥ ५. ३. ३६ ॥ हन्तेनिघादयः शब्दा यथासंख्यं निमितादिषु वाच्येषु कृतघत्वादयोऽलन्ता निपात्यन्ते ।
समन्ततो मितं तुल्यमविशेषेण वा मितं परिच्छिन्न-निमितम् , तुल्यारोहपरिणाहमित्यर्थः । निविशेषं निश्चयेन वा हन्यन्ते ज्ञायन्ते-निघा वृक्षाः, निघाः शालयः, निघा बृहतिका, निघं वस्त्रम् ; निघातोऽन्यः। उत्कर्षेण हन्यते ज्ञायते-उद्घः प्रशस्तः, उद्घातोऽन्यः । गणः-प्राणिसमूहः, संहतिः, संघः, अन्यत्र संघातः।
कथं संघातो मनुष्याणाम् ? संघातशम्दः समुदायमात्रे। अत्याधीयन्ते छेदनार्थ कुट्टनार्थ च काष्ठादीनि यत्र तदत्याधानम् , उद्धन्यतेऽस्मिन्निति-उद्घनः, काष्ठोद्घनः, ताम्रोधनः, लोहोघनः, घनः, स्कन्धः; उद्घातोऽन्यः । अङ्ग-शरीरावयवः, अपहन्यतेऽनेनेत्यपधनोऽङ्गम् , "व्रणिभिरपघर्षर्घराव्यक्तघोषान्" । पाणिः पादश्चापधनो नापरमङ्गमित्यन्ये । अपघातोऽन्यः । उपहन्यते-समीप इति ज्ञायते-उपघ्न आसन्नः, गुरूपघ्नः, ग्रामोपघ्नः, उपघातोऽन्यः । निपातनादेवोपात्तार्थविशेषे वृत्तिरसरूपप्रत्ययबाधनं च विज्ञायते ।३६ ___न्या० स०-निद्योद्घ-समन्ततो मितमिति-निशब्दस्य द्वावथों समन्ततोऽविशेषश्चेति । निविशेषं निश्चयेन वेति-समन्ततो मितमविशेषेण वा मितमिति भणितपूर्वार्थापेक्षया आभ्यां यथासंख्यं न, यतः स्वतन्त्राविमौ । कथं संघातो मनुष्याणामिति-नन्वत्र प्राणिसमूहत्वात् निपातः कथं न ? सत्यं,-संघातशब्दं प्रसाध्य पश्चात् मनुष्यशब्देन संबन्धः, अन्ये त्वपघनशब्देन हस्तपादस्यैव ग्रहणमाहुस्तन्निरासायाह-वणिभिरपघनैर्घर्घराव्यक्तघोषानिति-ननु