________________
[ २८५
पाद - ३, सूत्र - ४७-५३ ] श्रीसिद्धहेमचन्द्र शब्दानुशासने पंचमोऽध्यायः
न्या० स०- हनो घा-वध इति यङ लुबन्तस्यापि वधो घात इत्येव भवति । व्यध-जप-मद्भ्यः ।। ५. ३. ४७ ॥
एभ्योऽनुपसर्गेभ्यो भावाकरल् भवति । बहुवचनाद् भाव इति निवृत्तम् । व्यधः, जपः, मदः । अनुपसर्गादित्येव ? आव्याधः, उपजापः, उन्मादः ||४७ ||
नवा कण-यम-हस-स्वनः ।। ५. ३. ४८ ॥
अनुपसर्गेभ्य एभ्यो भावाकरल् वा भवति । क्वणः, क्वाणः; यमः, यामः; हसः, हासः; स्वनः, स्वानः । अनुपसर्गादित्येव ? प्रकाण:, प्रयाम:, प्रहासः, विष्वाणः । अप्राप्तविभाषेयम् ||४८
आङो रु-प्लोः ।। ५. ३. ४१ ॥
आङ: पराभ्यां रु-प्लुभ्यां भावाडकरल् वा भवति ।
आरव:, आराव:; आप्लव:, आप्लावः । प्राङ इति किम् ? विरावः, विप्लवः । रौतेर्घञि प्लवतेरलि नित्यं प्राप्ते विकल्पः ॥४९॥
वर्ष विघ्नेऽवाद ग्रहः ।। ५. ३, ५० ॥
अवपूर्वात् प्रर्वर्षविघ्ने वाच्ये भावाऽकर्त्रीरल् वा भवति ।
श्रवग्रहः, श्रवग्राहः; वृष्टेः प्रतिबन्ध इत्यर्थः । वर्षविघ्न इति किम् ? अवग्रहः पदस्य, अवग्रहोऽर्थस्य ॥ ५०॥
प्राद् रश्मि - तुलासूत्रे ॥ ५. ३.५१ ॥
प्रपूर्वाद् ग्रहे रश्मौ तुलासूत्रे चार्थे भावाऽकत्ररल् वा भवति । प्रगृह्यत इति प्रग्रहः, प्रगाह; अश्वादेः संयमनरज्जुस्तुलासूत्रं चोच्यते, अन्यस्तु प्रग्रहः ॥ ५१ ॥
वृगो वस्त्रे ॥ ५. ३. ५२ ॥
पूर्वाद् वृणोर्वस्त्रविशेषे वाच्ये भावाऽकर्त्रीरल् वा भवति ।
प्रवृण्वन्ति तमिति - प्रवरः, प्रावारः; “धञ्युपसर्गस्य बहुलम् " ( ३-२-८६ ) इति दीर्घः । अन्ये तु प्राङ्पूर्व एव वृणोतिः स्वभावाद् वस्त्रविशेषे वर्तते, तेन प्रावारः प्रावरः इति भवति । वस्त्र इति किम् ? प्रवरो यतिः ॥ ५२ ॥
उदः श्रेः ॥ ५. ३.५३ ॥
उत्पूवाच्छुर्भावाकरल् वा भवति । उच्छ्रयः, उच्छ्रायः । नित्यमलि प्राप्ते विकल्पः ।। ५३ ।।