________________
पाद-३, सूत्र -१९-२२ ]
श्री सिद्ध हेमचन्द्रशब्दानुशासने पंचमोऽध्यायः
न्या० स० - भावाकत्रः केचित्तु अत्र संज्ञायामित्याहुस्तन्निराकरणार्थमाह-श्रसंज्ञायामपीति - करकाश्रयणादिति भावग्रहणाच्च, यदि हि भावग्रहणमपनीयाऽकर्त्तरीति कृत्वा प्रसज्य नञ व्याख्यायते तदापि भाववत्संबन्धेऽपि घत्र स्यादिति संबन्धे घञ निवृत्त्यर्थं भावग्रहणम् । क्रियासामान्यमिति - त्रियाणां साधारणं रूपमित्यर्थः तथाहि सर्वासु क्रियासु सत्त्वमिति भवत्यर्थः साधारण एव, स च धात्वर्थ:, अत एव घातुनैवोच्यते, स न प्रत्ययैः । यः पुनः सिद्धता नाम स धात्वर्थस्य धर्म्म एव न धात्वर्थ:, अत एव प्रत्ययैरेवोच्यते, सन धातुना, तदुक्तम् —
आख्यातसाध्यैरर्थोऽसावन्तर्भूतोऽभिधीयते । नाम शब्दाः प्रवर्त्तन्ते, संहरन्त इव क्रमम् ॥ १ ॥
essपादाने तु टि वा ॥ ५.३.११ ॥
इङ धातोर्भावाकर्धञ् भवति, अपादाने तु कारके वा टिद् भवति । अध्ययनमध्यायः, अधीयत इति - अध्यायः, उपेत्याधीयतेऽस्मादिति उपाध्यायः । टिद्विधानसामर्थ्यात् स्त्रियां क्तिर्बाध्यते - उपाध्यायी उपाध्याया ॥ १६ ॥
न्या० स० - इङोपादाने - क्तिर्बाध्यत इति- टित्त्वस्य हि स्त्रियां ङी प्रत्ययः फलं, ततो यदि स्त्रियां क्तिर्भविष्यति तदा किं टिविधानेन ।
[ २७९
श्रो वायु-वर्ण- निवृते ॥ ५. ३.२० ॥
'शू' इत्यस्माद् भावाऽकत्रर्वाय्वादिष्वर्थेषु घञ् भवति ।
• शीर्यते औषधादिभिरिति-शारो वायुः, मालिन्येन शीर्यते इति-शारो वर्ण, निवृतं निवरणं प्रावरणमित्यर्थः, निशीर्यते शीताद्युपद्रवो येन तत् नीशारो निवृतम्, “गौरिवाकृतनीसार: प्रायेण शिशिरे कृशः " निवृता द्यूतोपकरणमिति कश्चित्, 'नियमेन वृता' इत्यन्वर्थात्, शारीरिव क्रीडितम् । एष्विति किम् ? शरः ||२०||
न्या० स०-श्रो वायु- नीशार इति - बाहुलकात् परमप्यऽनटं घं वा बाघते घञ
प्रत्ययः ।
निरभेः पू-त्वः ।। ५. ३. २१॥
'पू' इति पूग् - पूङो: सामान्येन ग्रहणम्, निरभिपूर्वाभ्यां यथासंख्यं पू-लुभ्यां परो भावाकर्घञ् भवति ।
निष्पूयते - निष्पावः, अभिलावः ।।२१।।
रोरुपसर्गात् ।। ५. ३. २२ ॥
उपसर्गपूर्वाद् रौतेर्भावाकर्घञ् भवति ।
संरवणं-संरावः, उपराव:, विरावः । उपसर्गादिति किम् ? रवः । सांराविणमित्यत्र ञिन् बाधकः । कथं रावः ? बहुलाधिकारात् ॥ २२ ॥