________________
बृहद्वृत्ति - लघुन्याससंवलिते [ पाद- ३, सूत्र - १६-१८
भाववचना घञ् क्त्यादयस्ते क्रियायां क्रियार्थायामुपपदे वत्र्त्स्यत्यर्थे वर्तमानाद् धातोर्भवन्ति । क्रियार्थोपपदेन तुमा मा बाधिषतेति वचनम्, प्रसरूपविध्यभावस्य ज्ञापितत्वात् ।
२७८ ]
पाकाय व्रजति, पक्तये व्रजति, पचनाय व्रजति, पाचनायै व्रजति । वचनग्रहणाद् यथाविहितः स तथा भवति । "तुमोऽर्थे भाववचनात् " ( २-२-६१ ) इति चतुर्थी |१५|| न्या० स०- भाववचनाः- वचनग्रहणादिति यदि भावे इति क्रियेत तदा भावमात्र एव ये विहितास्त एव लभ्येरन् न सर्वे, वचनग्रहणे तु ये केचिद् भावं ब्रुवन्ति केनापि प्रकारेण भावं ब्रुवाणा गृह्यन्ते एव ।
पद-रुज-विश-स्पृशो घञ् ।। ५. ३. १६ ॥
एभ्यो धातुभ्यो घञ् प्रत्ययो भवति, कृत्त्वात् कर्तरि । वत्र्त्स्यतीत्यादि निवृत्तम् ।
पद्यते पत्स्यते श्रपादि पेढे वा पादः, एवं रागः, वेशः, स्पर्शो व्याधिविशेषः, स्पर्शो देवदत्तः कम्बलस्य, घकारः कत्वगत्वार्थः । ञकारो वृद्ध्यर्थः ॥ १६ ॥
न्या० स० - पदरुज - वत्र्त्स्यतीत्यादि निवृत्तमिति - 'पदरूज' ५-२- १६ इत्यादिप्रकृति नियंत्रित प्रत्ययोपादानात्, आदिशब्दात्क्रिया क्रियार्थोपपदं च । केचिदुपतापे एव स्पृशेर्घञमिच्छन्ति तन्मतव्युदासार्थं स्पृशेरुदाहरणद्वयम् ।
सर्तेः स्थिर-व्याधि-बल-मत्स्ये ।। ५. ३. १७ ॥
सर्तेरेषु कर्तृषु घञ् भवति ।
स्थिरे सरति कालान्तरमिति सारः स्थिरः पदार्थः, सालसारः, खदिरसारः, कासारः । व्याध्यादौ - अतीसारो व्याधिः, सारो बलम्, विसारो मत्स्यः ||१७||
भावा- कर्बोः ॥ ५. ३. १८ ॥
भावे वाच्ये कर्तृ वजते कारके च सर्वधातुभ्यो घञ् भवति ।
पचनं पाकः, एवं रागः, त्यागः; प्रकुर्वन्ति तमिति - प्राकारः, एवं प्रासः, प्रसेवः, समाहारः, कार:, करणाधिकरणयोरनट् तदपवादश्च व्यञ्जनान्तेभ्यो घञ् वक्ष्यते । दाशन्तेSस्मा इति दाशः, तालव्योपान्त्योऽयम् । आहरन्त्यस्मादित्याहारः । असंज्ञायामपिदायो दत्तः, लाभो लब्धः । ‘कृतः कटो हृतो भार:' इत्यादौ बहुलाधिकारान्न भवति । प्रकत्रिति पर्युदासेन कारकाश्रयणात् संबन्धे न भवति देवदत्तस्य पच्यते ।
1
भावा - seaरिति किम् ? पचः । भावो भवत्यर्थः साध्यरूपः क्रियासामान्यं धात्वर्थ:, स धातुनैवोच्यते तत्रैव च त्यादयः क्त्वातुममस्तव्यानीयादयश्च भवन्ति । यस्तु भावो धात्वर्थधर्मः सिद्धता नाम लिङ्गसंख्यायोगी स द्रव्यवद् धात्वर्थादन्यः, तत्रायं धजादिविधि:, तेन तद्योगे लिङ्गवचनभेदः सिद्धो भवति - पाकः पाकौ पाकाः, पचनं पचने पचनानि, पक्ति: पक्ती पक्तय इति ।। १८ ।।