________________
२८० ]
बृहद्वृत्ति-लघुन्याससंवलिते
[ पाद-३, सूत्र-२३-२८
न्या० स०-रोरुपस०-साराविणमिति-समंतादावः अभिव्याप्तौ' ५-३-९० इति जिन् तत. स्वार्थे 'नित्यं प्रात्रनोऽण्' ७-३-५८ 'नो पदस्य' ७-४-६१ इत्यन्त्यस्वरादेलक न 'अनपत्ये' ७-४-५५ इति निषेधात् ।
भू-श्रयोदऽल ॥ ५. ३. २३ ॥ 'भू श्रि अद्' इत्येतेभ्य उपसर्गपूर्वेभ्यो भावाकोरल् प्रत्ययो भवति ।
प्रभवः, विभवः, संभवः; प्रश्रयः, प्रतिश्रयः, संश्रयः; प्रघसः, विघसः, संघसः । उपसर्गादित्येव ? भावः, श्रायः, घासः । भू-श्योरुपसर्गादेवेति नियमाथं वचनम् । कथं प्रभावः, विभावः, अनुभाव: ? बहुलाधिकारात् , प्रकृष्टो भाव इत्यादिप्रादिसमासो वा । लकारो "मिग-मीगोऽखलचलि" (४-२-८) इत्यत्र विशेषणार्थः ।।२३।।
न्यादो नवा ॥ ५. ३. २४ ॥ निपूर्वाददेरलि घस्लुभावोऽकारस्य दीर्घत्वं च वा निपात्यते । न्यादः, निधसः ।२४। सं-नि-व्युपाद यमः।। ५. ३. २५ ॥ एभ्य उपसर्गेभ्यः पराद् यमेर्भावा-ऽकोंरल वा भवति । संयमः, संयामः; नियमः, नियामः; वियमः, वियामः; उपयमः, उपयामः ॥२५॥ नेनंद-गद-पठ-स्वन-कणः ॥ ५. ३. २६ ॥ नेरुपसर्गात परेभ्य एम्यो भावा-कोरल प्रत्ययो वा भवति ।
निनदः, निनादः; निगदः, निगादः; निपठः, निपाठः; निस्वनः, निस्वानः; निक्वणः, निक्वाणः ॥२६॥
वैणे वणः॥ ५. ३. २७॥ वीणायां भवो-वैणः, वैणेऽर्थे वर्तमानादुपसर्गपूर्वात् क्वणे वाऽोरल् वा भवति ।
प्रक्वणो वीणायाः, प्रक्वाणो वीणायाः; एवं-निक्वणः, निक्वाणः । वैण इति किम् ? प्रक्वारणः शृङ्खलस्य । कथं क्वणः क्वाणो वीणायाः ? "नवा क्वण." (५-३-४८) इत्यादिना सामान्येन विधानात वैणेऽपि भवति ॥२७॥
युवर्ण-वृ-दृ-वश-रण-गमद्-ग्रहः ॥ ५. ३. २८ ॥
उपसर्गाद वा इति च निवृत्तम् । इवर्णान्तेभ्य उवर्णान्तेभ्यो वृ-ह-वश-रण-गमिभ्य ऋकारान्तेभ्यो ग्रहेश्च धातोर्भावाऽकोरल भवति, घमोऽपवादः ।
चयः, निश्चयः, जयः, क्षयः, क्रयः, यवः, रवः; नवः, स्तवः, लव:, पवः, वरः, प्रवरा; दरः, आदरः, वशः, रणः, गमः, अवगमः; कृ-करः, गृ-गरः, तृ-तरः, दृ-दरः,