SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ पाद - २, सूत्र - ८६-९१ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्यायः पुनाति पवते वा पवित्रोऽर्हन्, स मां पुनातु । करणेऽप्यन्ये ॥ ८५ ॥ ऋषि नाम्नोः करणे ॥ ५. २. ८६ ॥ सत्यर्थे वर्तमानात् पुवः करणे इत्रो भवति, ऋषौ संज्ञायां च । " पूयतेऽनेनेति - पवित्रोऽयमृषिः । नाम्नि दर्भः पवित्रः बहिः पवित्रम्, यज्ञोपवीतं पवित्रम्, ओघोपकरणं पवित्रम्, पवित्रा नदी । दर्भादीनां पवित्रमिति संज्ञा । ऋषौ कर्तर्यपि केचित् ॥ ८६ ॥ [ २७१ न्या० स० - ऋषिनाम्नोः - ओघोपकरणमिति - वहति प्रापयति निरवद्यां सर्वसावद्यविरतिमिति अचि ' न्यङकूद्ग ४ - १ - ११२ इति साधुः, यद्वा उङ शब्दे ऊयते शब्द्यते उपादेयतया लोकोत्तरे मघाघेति घः । लू-धू-सू-खन-चर-सहा ऽतः ।। ५. २. ८७ ॥ एभ्यः सत्यर्थे वर्तमानेभ्यः करणे इत्रो भवति । नात्यनेन - लवित्रम्, धुवत्यनेन - धुवित्रम्, धूनोतेरपि कश्चित् धवित्रम्, सुवत्यन-सवित्रम्, निरनुबन्धनिर्देशात् धूग्-सूङोर्न भवति । खनित्रम्, चरित्रम्, सहित्रम्, ऋच्छतीर्यति वा नेनारित्रम् । वहेरपि कश्चित् - वहित्रम् ॥६७॥ नी- दावू-शसू-यु-युज- स्तु-तुद - सि सि - मिह-पत-पा-नहस्त्रट् ।। ५. २. ८८ ॥ एभ्यः सत्यर्थे वर्तमानेभ्यः करणे त्रट् प्रत्ययो भवति । नयत्यनेन - नेत्रम्, दांव्, दान्त्यनेन - दात्रम्, शसू-शस्त्रम्, यु-योत्रम्, युज् - योक्त्रम्, स्तु-स्तोत्रम्, तुद्-तोत्रम्, सि-सेत्रम्, सिच्-सेक्त्रम्, मिह - मेढ्रम्, पत्-पत्रम्, पा-पात्रम्, पात्री, नह-नद्धः, नद्धी । टकारो ङयर्थः ॥ ८८ ॥ हल क्रोडाssस्ये वः || ५, २, ८१ ॥ श्रास्यं मुखम्, पुवो धातोः सत्यर्थे हलास्ये क्रोडास्ये च करणे त्रट् प्रत्ययो भवति । पुनाति पवते वाऽनेन - पोत्रम्, हलस्य सूकरस्य च मुखमुच्यते ॥ ८९ ॥ दंशेस्त्रः ॥ ५. २, १० ॥ दंशेः सत्यर्थे वर्तमानात् करणे त्रः प्रत्ययो भवति । दशत्यनया - दंष्ट्रा । प्रत्ययान्तरकरणमावर्थम् ॥६०॥ धात्री ॥ ५. २. ११॥
SR No.032129
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy