________________
२७२ ]
बृहवृत्ति लघुन्याससंवलिते . [ पाद-२, सूत्र-६१-९३
धेर्दधातेर्वा कर्मणि ऋट् प्रत्ययो निपात्यते ।
धयन्ति तामिति-धात्री स्तनदायिनी। दधति तां भैषज्यार्थमिति धात्री प्रामलकी ॥९१॥
ज्ञानेच्छार्थिनीच्छील्यादिभ्यः क्तः ५. २. १२ ॥
ज्ञानार्थेभ्य इच्छार्थेभ्योऽर्चा पूजा तदर्थेभ्यो जीभ्यः शील्यादिभ्यश्च धातुभ्यः सत्यर्थे वर्तमानेभ्यः क्तः प्रत्ययो भवति । पूर्ववच्चास्य कर्तृ-कर्माद्यर्थनिर्देशः ।
ज्ञानार्थ-राज्ञां ज्ञातः, राज्ञां बुद्धः, राज्ञां विदितः, राज्ञामवगतः । इच्छार्थ-राज्ञा. मिष्टः, राज्ञां मतः । अर्थार्थ-राज्ञाचितः, राज्ञां पूजितः । जीव-जिमिदा-मिन्नः, विवण्णः, स्विन्नः, धृष्टः, तूर्णः, सुप्तः, भीतः, इद्धः, तृषितः, फुल्लः। शील्यादि
शीलितो रक्षतिः क्षान्त, आक्रुष्टो जुष्ट उद्यतः । संयतः शयितस्तुष्टो रुष्टो रुषित आशितः ॥ १।। कान्तोऽभिव्याहृतो हृष्टस्तृप्तः सृप्तः स्थितो भृतः। अमृतो मुदितः पूर्तः शक्तोऽक्तः श्रान्त-विस्मितौ ॥ २॥ संरब्धाऽऽरब्ध-दयिता दिग्धः स्निग्धोऽवतीर्णकः। प्रारूढो मूढ प्रायस्तः, क्षुधित-क्लान्त-वीडिताः ।। ३ ।। मत्तत्रैव तथा क्रुद्धः, श्लिष्ट: सुहित इत्यपि ।
लिप्त-दृप्तौ च विज्ञेयो सति लग्नादयस्तथा ।। ४ ।। बहुलाधिकाराद् यथाभिधानमेभ्यो भूतेऽपि तो भवति, तथा च तद्योगे तृतीयासमासोऽपि सिद्ध :-"अर्हद्भ्यस्त्रिभुवनराजपूजितेभ्यः" इति, एवं-शोलितो मैत्रेण, रक्षितो मैत्रेणाऽऽऋष्टश्चैत्रेणेत्यादावपि द्रष्टव्यम् । वर्तमानक्ते तु षष्ठयेव-"कान्तो हरिश्चन्द्र इव प्रजानाम्" इति । अन्ये तु-ज्ञानाद्यर्थेभ्यः * तक्रकौण्डिन्य * न्यायेन भते क्तस्य बाधनात वर्तमानक्तेन च योगे कर्तरि षष्ठीविधानात् 'त्वया ज्ञातो मया ज्ञातः' इत्यादिरपशब्द इति मन्यन्ते ॥१२॥
न्या० स०-ज्ञानेच्छा०-पूर्ववच्चास्येति-कर्तरि कर्मणि भावे च यथा यस्य प्रत्ययोsभिहितस्तस्य तथैव केवलं वर्तमानकाल एव । ननु 'गत्यर्थ' ५-१-११ इति 'क्तक्तवतु' ५-१-१७४ इत्यनेन च सामान्येन विधानादमीषामपि सिद्धौ इत्याह-तत्रकौण्डिन्यन्यायेनेति ।
उणादयः॥ ५. २.१३॥ बहुलमिति वर्तते, सत्यर्थे वर्तमानाद् धातोरुणादयः प्रत्यया बहुलं भवन्ति ।
करोतीति-कारः, वायुः, पायुः । बहुलवचनात् प्रायः संज्ञाशब्दाः, केचित्त्वसंज्ञा शब्दा इति अनुक्ता अपि प्रत्यया भवन्ति । ऋफिडः, ऋफिड्डः । तथा सति विहिता उणादयः क्वचिद् भूतेऽपि दृश्यन्ते-भसितं तदिति भस्म, कषितोऽसौ-कषिः, ततोऽसौ-तनि: वृत्तं तदिति-वर्त्म, चरितं तविति-चर्म, अद्भ्यः सरन्ति स्म-अप्सरसः । उक्तं च