________________
पाद-२, सूत्र-४५-४६ ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्यायः [२६३
ननु तथापि सन्नन्तत्वात् 'सभिक्ष' ५-२-३३ इत्यादिना उ: प्रत्ययः प्राप्नोति ? नैवं, विषयव्याख्यानात् , यद्यकारलोपेऽपि उः प्रत्ययस्तदा विषयव्याख्या फलं न ।
न णिङ्-य-सूद-दीप-दीक्षः॥ ५. २.४५ ॥ णिङन्तेभ्यो यान्तेभ्यः सूदादिभ्यश्च धातुभ्यः शीलादौ सत्यर्थेऽन: प्रत्ययो न भवति ।
भावयिता, हस्तयिता, उत्पुच्छयिता, मायिता, ऋयिता, दयिता, सूदिता, दीपिता, दीक्षिता । मधुसूदनाऽरिसूदन-बलसूदनादयो नन्द्यादिषु द्रष्टव्याः ॥४५।।
न्या० स०-न णिज्य भावयितेति-अत्रानेकस्वरत्वात् णकविषये णिलोपात् व्यञ्जनान्तत्वात् अनः प्राप्तः प्रतिषिध्यते, तत इटि सति 'णेरनिटि' ४-३-८३ इत्युक्तेः पुननि. वर्त्तते एवं हस्तयितेत्यादौ भावना।
द्रम-क्रमो यङः ॥ ५. २. ४६ ॥ शीलादौ सत्यर्थे वर्तमानाभ्यां यङन्ताभ्यां द्रमि-क्रमिभ्यामन: प्रत्ययो भवति ।
कुटिलं द्रमति कामतीत्येवंशील:-दन्द्रमणः, चङ्क्रमणः । सकर्मकाथं वचनम्, य इति प्रतिषेधनिवृत्त्यर्थं च । “प्रतः" ( ४-३-८२) इति हि लुक् प्रत्यये विषयभूतेऽपि भवति ।।४६॥
न्या० स०-द्रमक्रमो-सकर्मकार्थमिति- इडितः' ५-२-४४ इत्यनेन तु अकर्मकाद्विहितः । प्रतिषेधनिवृत्त्यर्थमिति-ननु यदि सकर्मकार्थमारम्भस्तदा न विधेयः, यतोऽविवक्षितकर्मकाभ्यामाभ्यां 'इडितः' ५-२-४४ इत्यनेन भविष्यतीत्याह-य इतीति-ननु यङोऽकारान्तत्वात् कथं यान्तत्वमित्याह-अत इतीति । विषयेभूतेऽपीति-अनेकस्वरत्वाण्णकस्य ।
यजि-जपि दंशि-वदादूकः ॥ ५. २. ४७ ॥ एभ्यो यङन्तेभ्यः शीलादौ सत्यर्थे वर्तमानेभ्य ऊकेः प्रत्ययो भवति ।
भृशं पुनः पुनर्वा यजतीत्येवंशोलो-यायजूकः, जंजपूकः, बन्दशूकः, वावदूकः । अन्येभ्योऽपीति केचित्-दंदहूकः, पापयूकः, निजागदूकः, नानशूकः, पंपशूकः ॥४७॥
जागुः॥ ५. २. ४८॥
शीलादौ सत्यर्थे वर्तमानाज्जागर्तेरूकः प्रत्ययो भवति, यङ इति निवृत्तम् । जागर्तीत्येवंशोलो-जागरूकः ॥४८॥
न्या० स०-जागुः-यङ इति निवृत्तमिति-अनेकस्वरत्वेनासंभवात् । शमष्टकाद् घिनण् ॥ ५. २. ४१ ॥ शीलादौ सत्यर्थे वर्तमानेभ्यः शमादिभ्योऽष्टाभ्यो धातुभ्यो घिनण् प्रत्ययो भवति । शाम्यतीत्येवंशील:-शमी दमी, तमीश्रमी क्षमी, प्रमादी, उन्मादी क्लमी। घजन्ता