________________
२६२ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[ पाद- २, सूत्र - ४३-४४
द्वारेण न सिध्यतीतीहोपादानम् । जवनः । सृ-सरणः, गृधू- गर्धनः, ज्वल-ज्वलनः, शुचशोचन:, लष-अभिलषणः, पत- पतनः । पदेरिदित्त्वादुत्तरेणैव सिद्धे सकर्मकार्थं वचनम् । अर्थस्य पदनः ग्रन्थस्य पदनः; पदनः क्षेत्राणाम् ।
उत्तरत्र सकर्मकेभ्योऽपि विधिरित्येकेषां दर्शनम्, तथा चोकरणा बाधितोऽप्यसरूपत्वात् पदेरनः प्रत्ययो भविष्यतीति चेत् ? एवं तहि शीलादिप्रत्ययेष्वसरूपत्वेन शीलादिप्रत्ययो न भवतीति ज्ञापनार्थं पदिग्रहणम्, तेन चिकीर्षिता कटम्, अलंकर्ता कन्यामिति न भवति । कथं तहि 'गन्ता खेल:, आगामुकः; भविता, भावुकः; जागरिता, जागरूकः, विकत्थनः, विकत्थी; भासनं, भासुरम् ; वर्धन:, वधिष्णुः; अपलाषुकः, अपलाषी; कम्पना कम्प्रा शाखा ; कमना कामुका युवतिः ?" क्वचित् समावेशोऽपि भवति । एतदर्थमेव च " न ण्यादि० " ( ५-२-४५) सूत्रे दीपिग्रहणम्, अन्यथा रेणाऽनोऽस्य बाध्येतेति तदनर्थकं स्यात् । अनस्यैव विषये समावेश इत्येके ।। ४२ ।।
न्या० स०० - भूषाक्रोधार्थ० - वेगाख्ये इति-स्थिति-स्थापक भावनादिभेदात् त्रिधा संस्कारः, वेगाख्यस्तु चलनस्य हेतुरेव न तु चलनमित्यर्थः । श्रपलाषुक इति - निरुपसर्गस्य उकणश्चरितार्थत्वमतो न समानविषयता ।
चाल - शब्दार्थादकर्मकात् ॥ ५. २. ४३ ॥
चलनार्थाच्छन्दार्थाच्च धातोः शीलादौ सत्यर्थे वर्तमानाद कर्मकादविवक्षितकर्मकाद् बा परोऽनः प्रत्ययो भवति ।
रवणः,
चलतीत्येवंशील:- चलन:, कम्पनः, चोपनः, चेष्टनः । शब्दयतीत्येवंशीलः - शब्दनः, आक्रोशनः । अकर्मकादिति किम् ? पठिता विधाम् ||४३||
इङितो व्यञ्जनाद्यन्तात् ॥ ५. २. ४४ ॥
व्यञ्जनमादिरन्तश्च यस्य सव्यञ्जनाद्यन्तः । इदनुबन्धात् ङानुबन्धाच्च व्यञ्जनाद्यन्ताद् धातोः शीलादौ सत्यर्थे वर्तमानादनः प्रत्ययो भवति ।
इत्,ि स्पधि - स्पर्धनः । ङित्, वृतङ्-वर्तनः, वृधृङ - वर्धनः । णेरतश्च विषय एक लोपे व्यञ्जनान्तत्वात् इहापि भवति चितिण्- चेतनः, गुपि-जुगुप्सनः, मानि-मीमांसनः । इङित इति किम् ? स्वप्ता । व्यञ्जनाद्यन्तादिति किम् ? एधिता, शयिता । अकर्मकादित्येव ? वासिता वस्त्रम्, सेविता विषयान् । कथमुत्कण्ठावर्धनैरिति ? नात्र कर्मषष्ठीसमासो वृधेरकर्मकत्वात् किन्तु तृतीयासमासः, उत्कण्ठया वर्धनैः, वर्धमानोत्कण्ठाशीलरिति यावत् । अन्ये त्वत्कर्मकादेवेति नेच्छन्ति ॥ ४४ ॥
न्या० स० - इङितो - इहापि भवतीति - अन्यथाऽनेकस्वरात् 'निन्दहिंस' ५-२-६८ इति कः स्यात् । जुगुप्सन इति नन्वत्राकारस्य विषयेऽपि लोपे सन्नन्तस्य ङित्त्वाभावादनो न प्राप्नोति ? न, अत्र गुपेः स्वार्थे एव सन् ततश्च गुपिलक्षणे अवयवे कृतं लिङ्ग समुदायस्यापि विशेषकम् इति न्यायात् गुपिरेव द्रष्टव्यः ।
T