________________
पाद-२, सूत्र-३८-४२ ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्यायः
[२६१
लज्जालुः, ईर्ष्यालुः, शलालुप्रभृतयस्त्वौणादिकाः । कृपालु हृदयाल मत्वर्थीयान्तौ ॥३७॥
ङो सासहि-वावहि-चाचलि-पापति ॥ ५. २. ३८ ॥
शीलादौ सत्यर्थे वर्तमानानां सहि-वहि-चलि-पतीनां यङन्तानां डौ सति यथासंख्यमेते निपात्यन्ते । अत एव वचनाद किरपि ।
सासह्यते इत्येवंशील:-सासहिः । वावह्यते-वावहिः । चाचल्यते-चाचलिः । पनीपत्यते-पापतिः, निपातनात न्यागमाभावः । ङाविति ङकार: "तृन्नुदन्ताव्ययक्वस्वान०" (२-२-६०) इत्यत्र विशेषणार्थः ।।३।।
सनि-चक्रि-दधि-जज्ञि-नेमि ॥ ५. २. ३१ ॥ एते शोलादौ सत्यर्थे कृतद्विवचना डिप्रत्ययान्ता निपात्यन्ते ।
सरतीत्येवंशील:-सत्रिः करोति-चक्रिः, दधाति-दधिः, जायते जानाति वा जज्ञिः, नमति-नेमिः, द्विर्वचनाभाव एत्वं च निपातनात् ।।३।।
श-कम-गम-हन-वृष-भू-स्थ उकण ॥ ५. २. ४०॥ शीलादौ सत्यर्थे वर्तमानेभ्य एभ्य उकण् प्रत्ययो भवति ।
शणातीत्येवंशील:-शारुकः, प्रशारुकः शरः । कामुकः, कामुकी रिरंसुः, कामुका येच्छां विना कामयते, कामुका अन्यस्य स्त्रियो भवन्ति । गामुकः, आगामुकः स्वगृहम् । घातुकः, आघातुको व्याधः। वर्ष कः, प्रवर्षुकः पर्जन्यः। भावुकः, प्रभावुकः क्षत्रियः । स्थायुकः प्रमत्तः, उपस्थायुको गुरुम्, गुणानधिष्ठायुकः ।।४०॥
___ न्या० स०-शकमगम-कामुका अन्यस्येति-'अकमेरुकस्य' २-२-९३ इत्यत्र कमिवजनान्न षष्ठीनिषेधः।
लष-पत-पदः॥ ५. २.४१॥ शीलादौ सत्यर्थ वर्तमानेभ्य एभ्य उकण प्रत्ययो भवति ।
अपलषतीत्येवंशीलमपलाषुकं नीचसांगत्यम् , अभिलाषुकः । उत्पातुकं ज्योतिः, प्रयातुका गर्भाः । उपपादुका देवाः । योगविभाग उत्तरार्थः ॥४१॥
भूषा-क्रोधार्थ-जु सृ-गृधि ज्वल-शुवश्चानः ॥ ५. २. ४२॥
भूषार्थेभ्यः क्रोधार्थेभ्यो जु-स-गधि-ज्वलशुचिभ्यो लष-पत-पदिभ्यश्च शीलादौ • सत्यर्थे वर्तमानेभ्योऽनः प्रत्ययो भवति ।
भूषार्थे- भूषयतीत्येवंशीलो-भूषणः कुलस्य, मण्डना गगनस्य भाः, प्रसाधनः । क्रोधार्थे-क्रोधनः, कोपनः, रोषणः। जवतिः सौत्रो वेगाख्ये संस्कारे वर्तते, तेन चल्यर्थ